________________
धर्मपरीक्षा ॥११॥
AKAASHRA
छद्मखसंयतो दूरे, केवल्यप्यप्राप्तजिनकल्पादेविराधकः प्रसज्येत' इति यत्परेण प्राचीनग्रन्थदूषणरनिकेण प्रोक्तं तत्परिभाषाज्ञानामावविजृम्भितमिति द्रष्टव्यम् । 'यो यदप्राप्तिमान् स तद्विराधक' इति व्याप्तौ च तत्र (सावत्र) तात्पर्याभावात् , किन्तूक्तपरिभाषायामेव
४iसटिप्पणा तात्पर्यात् । तत्फलं च देशविराधकत्वेन देशद्वयाराधकत्वाक्षेपः । तथा च पूर्वभङ्गादाधिक्यं लभ्यते, तेन देशविराधकत्वेऽविरतसम्य
खोपन
वृत्तिः ॥ गेदृष्टर्देशाराधकादप्यधमत्वं स्थादित्यपास्तम् , परिभाषितस्य विराधकत्वस्याधमत्वाप्रयोजकत्वात, प्रत्युत देशद्वयाराधकत्वाक्षेपकतयोत्क
गाथा-२९ प्रयोजकत्वात् । न च परिभाषा न सूत्रनीतिरिति शङ्कनीयम्, “ सवामगंध परिचज निरामगंधो परिवए " [सर्वामगन्धं परित्यज्य ॥११॥ निरामगन्धः परिव्रजेत् ॥ [आचा. अ०२ उ०३०८७] इत्यादीनां परिभाषासूत्राणामपि तत्रव्यवस्थापितत्वाद् । यदि च देशविराधकत्वं नैवं पारिभाषिकमङ्गीक्रियते, तदाऽनुपातव्रतः सम्यग्दृष्टिः कस्मिन् भङ्गेऽवतारणीयः ?, न च नावतारणीय एव, सर्वाराधकादन्यत्र सहकारियोग्यताभावाभिधानाय त्रिमिरेव भङ्गैः सर्वेषां तद्विलक्षणानां सङ्ग्राह्यत्वादिति सूक्ष्ममीक्षणीयम् ॥ २८ ॥
तृतीयचतुर्थभङ्गी विवेचयति| तइए भंगे साहू, सुअवंतो चेव सीलवंतो अ॥ उवयारा सड्ढोवि य, भवाभिणंदी चउत्थंमि ॥ २९ ॥
[तृतीये भङ्गे साधुः श्रुतवाँश्चैव शीलवाँश्च । उपचारात् श्राद्धोऽपि च भवाभिनन्दी चतुर्थे ॥ २९॥] 'तइए भंगेत्ति । श्रुतवाश्चैव शीलवाँश्च साधुस्तृतीयभङ्गे सर्वाराधकलक्षणे समवतारणीयः, उपरतत्वाद् भावतो विज्ञातधर्मत्वाच त्रिपकारस्थापि मोक्षमार्गस्याराधकत्वात् । श्राद्धोऽपि चोपचारात् वतीयभङ्ग एच, देशविरतौ सर्वविरत्युपचारात् ज्ञानदर्शनयोश्वाप्रतिहतत्वात् । तत्र चचतुर्थभने सर्व विराधकलक्षणे भवाभिनन्दी क्षुद्रत्वादिदोषवान् देशतीऽप्यनुपरतो मिथ्यादृष्टिरिति॥२९॥
+