________________
धर्मपरीक्षा
॥११०॥
सकृद्बन्धका पुनर्बन्धकयोरिति । एतयोश्च भावसम्यक्त्वाभावाद्दीक्षायां द्रव्यसम्यक्त्वमेवमास्त्रेप्यते इति । कुग्रहविरहं असंदर्भिनिवेशवियोग, लघु शीघ्रं करोति विधत्ते, [ इह विरहशब्देन हरिभद्राचार्यकृतत्वं प्रकरणस्यावेदितं विरहाङ्कत्वात्तस्येत्येनं सर्वत्रेति गाथार्थः] ।” तथा च धर्ममात्रफलानुष्ठानवतां गीतार्थनिश्रितसाधु श्रावकाणामपि भावतोऽनधिगतश्रुतज्ञानत्वाच्छीलवच्चाच्च देशाराधकत्वमेव तथैव परिभाषणात्, चारित्रमोहनीयक्षयोपशम विशेषाद्भावतोऽधिगत श्रुतज्ञानानां शीलवतां द्रव्यतोऽल्पश्रुतानामपि माषतु'षादीनां त्वेवं सर्वाधिकत्वमेव परिशिष्यते इति दृष्टव्यम् || २७ ॥ विवेचितः प्रथमो भङ्गः, अथ द्वितीयं भङ्गं विवेचयन्नाह - देस भंगओवा, अलाहओ वा विराहगो बीओ ॥ संविग्गपक्खिओ वा, सम्मद्दिट्ठी अविरओ वा ॥२८॥
[ देशस्य भङ्गतो वा अलाभतो वा विराधको द्वितीयः । संविग्नपाक्षिको वा सम्यग्दृष्टिरविरतो वा ॥ २८ ॥ ] देस सत्ति | देशस्य मोक्षमार्गतृतीयांशभूतस्य चारित्रस्य गृहीतस्य, भङ्गादलाभाद्वा देशस्य, विराधको ज्ञेयः । स च देशभङ्गापेक्षा संविग्नपाक्षिको, देशाप्राप्त्यपेक्षया चाविरतसम्यग्दृष्टिः, तथा च 'ज्ञानदर्शनवच्चे सति चारित्रभङ्गाप्राप्त्यन्यतरवत्वं, | देशविराधकत्वमिति' परिभाषितं भवति ॥ इत्थं च जिनोक्तानुष्ठानमधिकृत्यैव कृतप्रतिज्ञानिर्वहणा देशाराधकः, विरतिपरित्यागेनैव चाविरतसम्यग्दृष्टिरपि देशविराधकः, " प्राप्तस्य तस्यापालनाद् " इति वचनात् । इत्युभयोरपि प्रकारयोः सविषयत्वेन प्रामाण्यसिद्धेः 'दप्राप्ते' इति विकल्पेन व्याख्यानं तत्केनाभिप्रायेण १ इति संशये सम्यग्वक्तृवचनं वयमपि श्रोतुकामाः स्म इति बोध्यम्, यतो यद्यप्राप्तिमात्रेण विराधकत्वं स्यात् तर्हि चरकपरिव्राजकादीनां ज्योतिष्कादूर्ध्वमुपपाताभावः प्रसज्येत, मोक्षकारणभूतानां सम्यगुज्ञानादीनां त्रयाणां लेशतोऽप्यभावेन देशविरति सर्वविरत्योर्युगपद्विराधकत्वात् । तथा 'द्वादशाङ्गपर्यन्तनानाश्रुतावधिप्रवृश्यप्राप्तिमान्
सटिप्पणा ॥ खोपन चिः ॥
गाथा - २८ ॥११०॥