________________
धर्मपरीक्षा ॥१८॥
सटिप्पा ॥खोपड़ वृतिः ॥ गाथा-७ ॥१०८॥
CASSAR
बाह्यं त्वसदनुष्ठानं, प्रायस्तुल्यं दूयोरपि ॥२६९॥ यतो ग्रन्थिमतिक्रम्यास्य न बन्धः, तत् तस्माद्, अत्र अनयोभिन्नग्रन्थीतरयोर्जीवयोर्विषये, परिणामस्य अन्तःकरणस्य, भेदकत्वं भेदकभावो,नियोगतः नियोगेन, (नियमेन) बाह्य तु बहिर्भवं पुनः, असद |नुष्ठानमर्थीपार्जनादि, प्रायोबाहुल्येन, तुल्यं समं, द्वयोरप्यनयोरिति ॥२६९॥" सैद्धान्तिकमतमेतद् ।येऽपि कार्मग्रन्थिका | भिन्नग्रन्थेरपि मिथ्यात्वप्राप्तावुत्कृष्टस्थितिबन्धमिच्छन्ति,तेषामपि मतेन तथाविधरसाभावात् तस्य शोभनपरिणामत्वे न विप्रतिपत्तिः।
यद्यपि अल्पबन्धेऽपि मिन्नग्रन्थेरशुभानुबन्धान्मिथ्यात्वप्राबल्येऽनन्तसंसारित्वं सम्भवति, तथापि मन्दीभूतं लोकोत्तरमिथ्यात्वं सन्नि| हितमार्गावतरणबीजं स्यादिति विशेषः । न चैवं 'लौकिकमिथ्यात्वाल्लोकोत्तरमिथ्यात्वं शोभनं'-इत्येकान्तोऽपि ग्राह्यः, लोकोत्तरस्यापि भिन्नग्रन्थीतरसाधारणत्वात् , मुग्धानां परेषां मिथ्यात्ववृद्धिजनकतया लोकोत्तरमिथ्यात्वस्यापि महापापत्वेनोक्तत्वाच । यदागमः"जो जहवायं ण कुणइ, मिच्छद्दिट्ठी तओ हु को अण्णो॥ वड्डेइ य मिच्छत्तं,परस्स संकं जणेमाणो॥” (पिण्डनियुक्ति गाथा. १८३योयथावादं न करोति मिथ्यादृष्टिस्ततः खलु कोऽन्यःवर्धयति च मिथ्यात्वं परेषां शङ्का जनयन्)" इति। तस्मादत्रानेकान्त एव श्रेयानिति॥२६॥
गीतार्थनिश्रितमपि देशाराधकमाहपढमकरणभेएणं, गंथासन्नो जई व सड्ढो वा ॥णेगमणयमयभेआ, इह देसाराहगो णेओ ॥ २७ ॥
[प्रथमकरणभेदेन ग्रन्थ्यासत्रो यतिर्वा श्राद्धो वा । नैगमनयमतभेदादिह देशाराधको ज्ञेयः ॥ २७॥] पढमत्ति। प्रथमकरणभेदेन यथाप्रवृत्तकरणावस्थाविशेषेण, ग्रन्थ्यासन्नो ग्रन्थिनिकटवर्ती अपुनर्बन्धकादिभावशाली,यतिर्वा श्राद्धो वा, इह प्रकृतविचारे, नैगमनयमतभेदात्प्रस्थ कन्यायेन विचित्रावस्थाऽभ्युपगन्तनैगमनयमतविशेषाश्रयणाद्देशाराधको
REGUAG E