SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१०६॥ तथाविधकर्मवशाद् गच्छवास भीरुतयैवैकाकित्वं सम्पन्नम्, सूत्ररुचिश्च न निवृत्ता, तस्य स्वमत्यनुसारेण सदाप्रवृत्तेर्बह्वज्ञानकष्टे पतति । | किञ्चित्तु कदाचित्परिणामविशेषवशादागमानुपात्यपि स्यात् । तदुक्तमुपदेशमालायाम् - " अपरिणिच्छियसु अणिहस - रस केवल|मभिन्नसुत्तचारिस || सब्बुजमेण वि कथं, अन्नाणतवे बहुं पडइ ।। " ( गाथा ४१५) इति । एतद्वृत्तिर्यथा - "अपरिनिश्चितः सम्यगपरिच्छिन्नः श्रुतनिकष आगमसद्भावो येन स तथा तस्य, केवलमभिन्नमविवृतार्थ यत्सूत्रं विशिष्टव्याख्यानरहितं सूत्रमात्रमित्यर्थः तेन चरितुं तदनुसारेणानुष्ठानं कर्तुं धर्मों यस्य सोऽभिन्न सूत्रचारी तस्य, सर्वोद्यमेनापि समस्तयत्नेनापि, कृतमनुष्ठानम्, अज्ञानतपसि पञ्चाग्निसेवनादिरूपे, बहु पतति खल्पमेवागमानुसारि भवति, विषय विभागविज्ञानशून्यत्वादिति ॥ " यद्यपि स्वमत्या प्रवर्तमानानां घुणाक्षरन्यायात्समागतं किञ्चिच्छुद्धमपि कृत्यं नागमानुपाति, अन्यथा निह्नवानामपि तदापत्तेः, तथाऽपि शुद्धक्रियाजन्य निर्जरा प्रतिबन्धकस्वमतिविकल्पे यत्किञ्चिदागमानुपाति शिष्टसंमतं च तत्प्रमाणम्, न तु मन्मतानुसारित्वेनैवागमः प्रमाणमित्येवंविधोऽनभिनिवेशविकल्प उत्तेजक इति न दोषः । तदेवंविधो गीतार्थनिश्रिततपश्चरणरतोऽगीतार्थः बालतपस्वी च शीलवान् श्रुतवान् मार्गानुसारित्वेन देशाराधक इत्युभयोः पक्षयोर्नातिविशेष इति द्रष्टव्यम् ।। २५ ।। ननु 'लौकिकमिथ्यात्वाल्लोकोत्तरमिध्यात्वं बलीयः' इति हेतोरुभयोर्महाभेद एव इत्यत आह लोइ अमिच्छत्ताओ, लोउत्तरियं तयं महापावं ॥ इअ गंतो जुत्तो, जं परिणामा बहुविअप्पा ॥ २६ ॥ [ लौकिक मिथ्यात्वाल्लोकोत्तरिकं तद् महापापम् । इत्येकान्तो न युक्तो यत्परिणामा बहुविकल्पाः || २६ । ] लोइ अमिच्छत्ताओत्ति । 'लौकिक मिथ्यात्वाल्लोकोत्तरिकं तत् मिथ्यात्वं, महापापम्' इत्येकान्तो न युक्तः, सटिप्पणा ॥ खोपड वृचिः ॥ गाथा - २५ ॥१०६ ॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy