SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा १०५i SSAASIA पक्खतरम्मित्ति । पक्षान्तरे-अन्येषामाचार्याणां व्याख्याने, गीतार्थानिश्रितोऽगीतार्थः स देवाराधको भणितः, सटिप्पणा योऽनभिनिविष्टचित्तः-आत्मोत्कर्ष-परद्रोह-गुरु-गच्छादिप्रद्वेषमूलासद्ग्रहाकलङ्कितचित्तः, भीरु:-कुतोऽपि हेतोरेकाकिभावमा ॥स्वोपत्र श्रयन्नपि स्वेच्छानुसारेण प्रवर्तमानोऽपि खारसिकजिनाज्ञाभयः(यवान्),एकान्तसूत्ररुचिः-अव्याकृतसूत्रमात्रानुसारी। अयं भावः-3 वृचिः ॥ एकाकिनस्तावत्प्रायश्चारित्रासम्भव एव, स्वयं गीतार्थस्य तनिश्रितागीतार्थस्य वा चारित्रसम्भवात् । न हि चारित्रपरिणामे सति गुरुकु- गाथा-२५ लवासमोचनादिकमसमञ्जसमापद्यते । उक्तं च पश्चाशके(११)"ता ण चरणपरिणामे, एयं असमंजसं इहं होइ ॥ आसन्नसिद्धियाणं, ॥१.५॥ जीवाण तहा य भणियमिणं ॥१५॥ नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य॥धन्ना आवकहाए, गुरुकुलवासंण मुंचंति ॥१६॥" [ततो न चरणपरिणामे एतदसमञ्जसमिह भवति । आसनसिद्धिकानां जीवानां, तथा च भणितमिदम् ॥ ज्ञानस्य भवति भागी स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति..] ततः कष्टविहारिणोऽप्येकाकिनो गुरुकुलवासैकाकिविहारयोर्गुणदोषविपर्यासमवबुध्यमानस्य स्वाभिनिवेशात्तपोरतस्यानागमिकत्वेनकाकित्वेन च प्रवचननिन्दाकारिणः शेषसाधुषु पूजाविच्छेदाभिप्रायतश्च प्रायो बह्वसमीक्षितकारित्वेनाभिन्नग्रन्थित्वाद् बाह्यवदसाधुत्वमेव ॥ तदुक्तम्-"जे उ तह विवजत्था, सम्म गुरुलाघवं अयाणता ॥ सग्गाहा किरियरया, पवयणखिसावहा खुद्दा ॥३७॥ पायं अभिन्नगठी, तमाउ तह दुक्करंपि कुव्वंता॥ बज्झा व | ण ते साहू, धंखाहरणेण विनेया ॥३८॥"त्ति [ये तु तथा विपर्यस्ताः सम्यग् गुरुलाघवमजानन्तः।खाग्रहात् क्रियारताः प्रवचनखिंसा(निन्दा) वहां क्षुद्राः ॥ प्रायोऽभिन्नग्रन्थयः तमसः तथा दुष्करमपि कुर्वन्तः। बाह्या इव न ते साधवः ध्वांक्षोदाहरणेन विज्ञेयाः] तथापि । न सर्वेषां सदृशः परिणाम इति, यस्यैकाकिनो विहारिणो नातिङ्करः परिणामः, किन्तु मृगपर्षदन्तर्गतस्य साधोरपवादादिभीरुतयैव HARSHILOSOISSECASSA)
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy