SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१.४॥ सटिप्पणा स्वोपड़ | वृत्तिः ॥ गाथा-२५ | ॥१.४॥ PLACESCALCUMES यत्किमपि तपोदानाध्ययनयमनिममादिषु पराक्रान्तमुद्यमः कृतस्तदशुद्धम्-अविशुद्धकारि प्रत्युत कर्मबन्धाय, भावोपहतत्वाद् सनि. दानत्वाद्वेति, कुवैद्यचिकित्सावद् विपरीतानुबन्धित्वाचेति (बन्धीति) तच्च तेषां पराक्रान्तं सह फलेन कर्मबन्धेन वर्तते इति सफलं । सर्वश इति । सर्वा अपि तक्रियास्तपोऽनुष्ठानादिकाः, कर्मबन्धायैव इत्युत्तरार्द्धव्याख्यानात । 'पण्डितानामपि त्यागादिभिर्लोकपूज्यानामपि सुभटवादं वहतामपि सम्यक्तत्वपरिज्ञानविकलानां सर्वक्रियाफल्याद न मिथ्यादृशां केषामपि क्रियावतामपि लेशतोऽप्याराधकत्वम्' इत्यपास्तम् । एतेन भवामिनन्दिनां मिथ्यादृशां सर्व क्रियावैफल्यसिद्धावपि तद्विलक्षणानां भावानुपहतत्वेन देशाराधकत्वाप्रतिघातात्, एतेन 'मिथ्याशा सर्व कृत्यं निरर्थकम्' इत्यादीन्यपि वचनानि व्याख्यातानि, विशिष्टफलाभावापेक्षयाऽपि निरर्थकत्वव चनदर्शनात् । पठ्यते च-"नाणं चरित्तहीणं, लिंगरगहणं च दंसणविहूण। संजमहीणं च तवं, जो चरइ णिरत्ययं तस्स ॥' (उप- | देशमाला गाथा ४६५) इत्यादि। [ज्ञानं चारित्रहीनं लिङ्गग्रहणं च दर्शनविहीनम् । संयमहीनं च तपो यश्चरति निरर्थकं तस्य ॥] अथ पोषमासे वटवृक्षाम्रवृक्षयोः सहकारफलं प्रत्यकारणत्ववचनयोर्यथा स्वरूपयोग्यता-महकारियोग्यताऽभावेन विशेषस्तथा मिथ्याकृत्यचारित्रहीनज्ञानादिनिरर्थकतावचनयोरपि स्फुट एव विशेष इति चेत् , तर्हि अयमपरोऽपि विशेषः परिभाव्यतां । सहकारफलस्थानीयं मोक्षं प्रति भवाभिनन्दिमिथ्याक्कृत्यं वटवृक्षवदयोग्यम् , अपुनर्बन्धकादिकृत्यं तु सहकाराङ्करवत्पारम्पर्येण योग्यमिति सर्वमिदं निपुणं निभालनीयम्।.२४॥ तदेवं श्रुतवांश्च बालतपस्वी देशाराधकः' इति वृत्तिगतः प्रथमपक्षः समर्थितः,अथ तद्गतं द्वितीयं पक्षं समर्थयतिपक्खंतरम्मि भणिओ, गीयत्थाणिस्सिओ अगीओ सो ॥ जो णभिणिविद्वचित्तो, भीरू एगंतसुत्तरुई ॥२५॥ [पक्षान्तरे भणितो गीतार्था निश्रितोऽगीतः सः। योऽनभिनिविष्टचित्तो भीरुरेकान्तसूत्ररुचिः॥ २५॥]
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy