________________
सटिप्पणा |॥ खोक्न | वृत्तिः ॥ गाथा-२४ ॥१०२॥
धर्मपरीक्षा | *I दुष्टार्थकत्वं काव्यस्य स्यात् । किं.च-एवमपि परेषां जिनाभिहितार्थश्रद्धानाभ्युपगमे सत्प्रशंसारूपबीजलाभाभ्युपगमप्रसङ्गः । न च ॥१.२॥
तेषां क्वचिद् यथार्थ जिनोक्तश्रद्धानेऽपि तत्प्रणेतहति देवत्वेन भावाभावाद् । देवो रागद्वेषरहितः सर्वज्ञ एव भवति नापरः, स चास्मदमिमतः सुगतादिरेवेति शाक्यादीनाम् , देवोहन्नेव, परमस्मन्मार्गप्रणेतेत्यादि च मिथ्यात्वबीजं दिगम्बरादीनामस्त्येवेति न तेषु धर्मबीजसम्भव इति वाच्यम् । तथाऽपि तादृशपक्षपातरहितानां यः कश्चिद् रागादिरहितो विशिष्टपुरुषः स देवः' इत्यादिसंमुग्धश्रद्धानवतां भगवदभिहितकतिपयमुन्दरार्थग्राहिणां धर्मबीजसद्भावस्य प्रतिहन्तुमशक्यत्वात् , औधिकयोगदृष्ट्या तत्प्रणीतवाक्येषु सुन्दरार्थमुपलभ्येत्यस्याप्यादिधार्मिकत्वोपपत्तश्चेत्यध्यात्मदृष्टया विचारणीयम् , तां विना वादप्रतिवादादिव्यापारात् तत्त्वाप्रतिपत्तेः । तदुक्तं योगबिन्दौ-"वादांश्च प्रतिवादांश्च, वदन्तो निश्चितांस्तथा ॥ तत्त्वान्तं नैव गच्छन्ति, तिलपीड (ल) कवद् गतौ ।। ६७ ॥ अध्यात्ममत्र परम, उपायः परिकीर्तितः॥गतौ सन्मार्गगमनं, यथैव ह्यप्रमादिनः" ॥६८॥ इति । अन्योपि व्यवहारेणान्यमार्गस्थोपि, तदनुसारी जिनेन्द्रभुतमूलार्थपदानुसारी, तत् तस्मात्कारणात् , देशाराधको युक्त इति॥२४॥ नन्वेतदयुक्तम्-मिथ्यादृशां प्राणातिपातादिविनिवृत्तेरप्यधर्मपक्षे निवेशितत्वात् तया तेषां देशाराधकत्वाभावात् । तदुक्तं सूत्रकृताङ्गे(द्वि.श्रु०अ०२०३४)"अहावरे तच्चस्स हाणस्स मीसगस्स विभंगे एवमाहिजइ, जे इमे भवंति आरणिआ" इत्यादि यावत् । जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहु" ति । [ अथापरस्तृतीयस्य स्थानस्य मिश्रकस्य विभङ्ग एवमाख्यायते-य इमे भवन्ति आरण्यिकाः। (यावत्) असर्वदुःखप्रक्षीणमार्गमेकान्तमिथ्यमसाध्विति ॥] एतवृत्त्येकदेशो यथा-"अत्र चाधर्मपक्षेण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्येह भूयिष्ठत्वादधर्मपक्ष एवायं द्रष्टव्यः । एतदुक्तं भवति-यद्यपि मिथ्यादृष्टयः काञ्चित्तथाप्रकारां प्राणातिपातादिविनिवृत्तिं विदधति, तथाप्याशयस्याशुद्धत्वा
CATEGICHEHRECE