________________
F
धर्मपरीक्षा ॥१०॥
CHAUHHOREA
ता"यदार्जवादुक्तमयुक्तमन्यै-स्तदन्यथाकारमकारि शिष्यैः।। न विप्लवोऽयं तव शासनेऽभू-दहो अधृष्या तव शासनश्रीः॥"(अयोग द्वा.
सटिप्पणा श्लोक१६) इति । न चेदमुपदेशपदवृत्तिकृत एव दूषणदानम् , किन्तु “एक एव हि मार्गोऽपि, तेषां शमपरायणः ॥” इत्यादिव-17
॥खोषज्ञ | दतां श्रीहरिभद्रसूरीणां 'समाख्यातम्' इति पदसूचितग्रन्थकृदेकवाक्यताशालिश्रीसिद्धसेनदिवाकराणां तदनुसारिणामन्येषां
वृचिः ॥ चेत्यतिदरन्तोऽयं कोऽपि मोहमहिमा। या चानुपपत्तिरुद्भाविता 'यदि द्वादशाङ्गं रत्नाकरतुल्यम्' इत्यादिना साऽनुपपन्ना, 'समुद्राजलं
गाथा-२४ गृहीत्वा मेघो वर्षति, ततश्च नद्यः प्रवृद्धा भवन्तीति प्रसिद्धेः' परप्रवादानामपि नदीतुल्यानां जैनागमस्य समुद्रगृहीतार्थजलादांशि- ॥१०॥ कक्षयोपशममेघात्प्रवृद्धिसम्भवात् । एवं नदीतुल्यानां परप्रवादानां जैनागमसमुद्रमूलत्वे लोकनीत्याऽपि बाधकाभावात् ॥ अत एव न समुद्रस्य नदीपितृत्वापत्तिदोषोऽपि, लोकनीत्यापि तदनुपपत्तेः । यदि चोपमानबललभ्यधर्मेण तत्सहचरितानभिमतधर्मापत्तिः स्यात, तदा चन्द्रोपमया मुखादौ कलङ्कितत्वाद्यापत्तिरपि स्यादिति ॥ न चैवं मेघात्प्राग् नदीनामिव जैनागमानुसारिक्षयोपशमात्प्राक् परवादानामनुपचितावस्थत्वप्रसङ्गः, इष्टत्वात् , जैनागमानुसारिनयपरिज्ञानं विनाऽनुपनिबद्धमिथ्यात्वरूपतयैव तेषां स्थितत्वात् । न चैवं जिनदेशनाया उपचितमिथ्यात्वमूलत्वेनानर्थमूलत्वापत्तिः, विश्वहितार्थिप्रवृत्तावनुषङ्गतस्तदुपस्थितावपि दोषाभावाद् भावस्यैव प्राधान्यात् ॥ तदुक्तमष्टके-(२८ श्लोक ८) " इत्थं चैतदिहेष्टव्य-मन्यथा देशनाऽप्यलम् । कुधर्मादिनिमित्चत्वा-दोषायैव प्रसज्यते ॥” इति पराभिप्रायेण प्रकृतस्तुतिवृत्तव्याख्याने च त्वत्तः समुदीर्णाः-इति वाच्ये 'त्वयि समुदीर्णाः' इति पाठस्य क्लिष्टत्वापत्तिः किं च-'एवं परेषां भगवदभिहितार्थश्रद्धानम् भगवतश्च तल्लेशस्याप्यश्रद्धानम्' एतावता भगवत्यतिशयालाभः । साम्प्रदायिके त्वर्थे 'भगवत्यन्यदृष्टयः | समवतरन्ति, भवांश्च न तासु' इत्येवं स्वेतरसकलदर्शनार्थव्याप्यार्थप्रवचनवक्तृत्वरूपातिशयालाम इत्युपमया व्यतिरेकालङ्काराक्षेपात
ACANAGAR