________________
धर्मपरीक्षा
ICICICICE
स्ति, भेदाभेदवादित्वात्तस्येति वक्रतां परित्यज्य विचारणीयम्; परगुणद्वेष एव भगवतामवज्ञेति । एतदर्थसमर्थनायैव हि 'सर्वप्रवा
★ सटिप्पणा दमूलं द्वादशाङ्ग रत्नाकरतुल्यम्' इत्यत्र "उदधाविव०" इत्यादिसम्मतितयोद्भावित वृत्तिकृता । अत्र परः प्राह-यत्तु 'सर्वप्रवादानां
स्वोपड़ द्वादशाङ्गं रत्नाकरतुल्यम्' इति समर्थनाय टीकाकारेण "उदधाविव सर्वसिन्धवः” इत्यादिरूपं श्रीसिद्धसेनदिवाकरवचनं | वृत्तिः ॥ | सम्मतितयोद्भावितं तच्च विचार्यमाणमसङ्गतमिवाभाति । तथाहि-यदि द्वादशाङ्गं रत्नाकरतुल्यम्, तर्हि नदीतुल्याः प्रवादा न भवेयुः, | गाथा-२४ समुद्रानदीनामुत्पत्तेरभावात्, समुद्रस्य च नदीपितृत्वापत्त्या "नदीपतिः समुद्रः" इति कविसमयव्याहतिप्रसक्तः, समुद्रस्य गाम्भीर्यहा
॥१०॥ निप्रसक्तेश्च । तस्मात्स्तुतिकर्तुरभिप्रायोऽयम्-हे नाथ! 'त्वयि सर्वज्ञे, दृष्टयोऽन्यतीर्थिकानां निजनिजमार्गश्रद्धानलक्षणाः, 'समु. दीर्णाः' सम्यगुदयं प्राप्ताः, तद्विपयो भगवान जात इत्यर्थः । अयं भावः-यत्किचिदकरणनियमादिकं जिनेन सुन्दरतया भणितम् , सदन्यतीथिकैरपि तथैव प्रतिपन्नम् । एतच्च साम्प्रतं नालिकेरादिफलाहारेणैकादशीपर्वोपवासं कुर्वाणा जनाभिमतोपवासं सम्यक्तया मन्यन्ते, जैनाश्च तदुपवास लेशतोऽपि न मन्यन्ते । अत एव च 'न च तासु भवान् प्रदृश्यते' इति । तासु-अन्यतीर्थिकदृष्टिषु | 'भवान् न प्रदृश्यते' अन्यतीर्थिकश्रद्धानविषयीभूतं धार्मिकानुष्ठानं गङ्गास्नानादिकं भवान् लेशतोऽपि न मन्यते इत्यर्थः । अन्य-IKI
तीथिकानां दृष्टयो भगवति वर्तन्ते । तत्र दृष्टान्तमाह-यथोदधौ सर्वाः सिन्धवः समुदीर्णा भवन्ति-सम्यगुदयं प्राप्ताः स्युः, लोकेऽपि | भर्तृसम्बन्धेन स्त्रिय उदिता भवन्तीति प्रसिद्धेः । तासु च भवान्नास्ति' इत्यत्र दृष्टान्तमाह-यथा प्रविभक्तासु सरित्सु नदीषु समुद्रो | नास्ति । तासु च समुद्रो नावतरतीत्यर्थः । अनेनाभिप्रायेण स्तुतिः, न पुनरहेदुपदिष्टप्रवचनद्वाराऽर्हत्सकाशादन्यतीर्थिकदृष्टयः समुत्पन्ना इत्यभिप्रायेणेति ॥ तदसत, प्राचीनाचार्यव्याख्यामुल्लङ्घ्य विपरीतव्याख्यानस्यापसिद्धान्तत्वात् । तदाहुः श्रीहेमचन्द्रसूरयः
IAS