SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा SPECIALA सर्वोत्कृष्टश्रुतज्ञानं सन्तानभेदाविवक्षया गृह्यते, तच्छुद्धज्ञानमेव ज्ञानाज्ञानसाधारणं वा, आये तस्य सर्वप्रवादमूलत्वानुपपत्तिः, शुद्धाशुद्ध सटिप्पणा | योरेक्यायोगाद् । अन्त्ये च सङ्ग्रहनयाश्रयणेन द्वादशाङ्गसामान्यस्य वस्तुतः सर्वनयप्रवादात्मकत्वसिद्धावपि व्यक्त्यनुपसङ्ग्रहापत्तिः।। |॥ खोक्न न हि.यथा नानाजलोत्पन्नानि जलजानि जलजत्वेनोच्यन्ते तथा 'जलं सर्वजलजोत्पादकम्' इत्यपि व्यवहारः क्रियते, एवमेव हि वृतिः । 'सर्वप्रवादमूलं द्वादशाङ्गम्' इत्यपि न स्यात् । यदि चैकवचनेनापि व्यक्त्युपसङ्ग्रहः क्रियते, भेदविवक्षयैव च मिथ्यादृशां द्वादशाङ्ग- गाथा-२४ मत्यल्पक्षयोपशमात्मकं सर्वांशक्षयोपशमशुद्धसम्यग्दृष्टिद्वादशाङ्गरत्नाकरापेक्षया विन्दुतुल्यं व्यवस्थाप्यते, तदा केयं वाचोयुक्तिः १, स- ॥९८॥ र्वेऽपि शाक्यादिप्रवादा जैनागमसमुद्रसम्बन्धिनो बिन्दव इति भ्रान्तिः' इति ज्ञानवाक्ययोमिथ्यारूपयोरविशिष्टयोरेकत्र जैनागमसम्बन्धित्वमपरत्र नेत्यत्र प्रमाणाभावात् , प्रत्युत वाक्यमुत्सर्गतो न प्रमाणं नवाऽप्रमाणम्, अर्थापेक्षया तु तत्र प्रामाण्यमप्रामाण्यं वा व्यवतिष्ठते इति कल्पभाष्यप्रसिद्धार्थानुसारेणोदासीनेषु बाक्यरूपपरप्रवादेषु तत्सम्बन्धित्वमत्यन्तासुन्दरम्, साक्षात्प्रतिपक्षभूतेषु मिथ्याज्ञानरूपेषु प्रवादेषु तदत्यन्तासुन्दरमिति भावभेदे च सति वाक्यरचनायां न विशेषः । 'सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक्श्रुतम् , मिथ्यादृष्टिपरिगृहीतं च सम्यक्श्रुतमपि मिथ्याश्रुतम्' इति सिद्धान्तव्यवस्थितत्वाच्छाक्यादिप्रवादेषु जैनागमोद्गतत्वरूपतत्सम्बन्धित्वाभ्युपगमस्य तदेकानुपूर्वीकरचनारूपसम्बन्धाभावेन खण्डनं त्वपाण्डित्यविजृम्भितमेव । न ह्येवंभृतसम्बन्धेन साधूनां तद्वचनादसंयतत्वापत्तिः, शुद्धाशुद्धविवेकेनैव साधुभिस्तत्परिग्रहात् । न च 'शाक्यादिप्रवादा जैनागमसमुद्रसम्बन्धिनो बिन्दवः' इति प्रवाहपतितमेव वचनम्, "पावंति जसं असमंजसावि, वयणेहि जेहिं परसमया । तुह समयमहोअहिणो, ते मंदा बिंदुणिस्संदा ॥ १॥” (धनपालपंचाशिका गाथा ॥४१॥) (प्राप्नुवन्ति यशः असमञ्जसा अपि यैर्वचनैः परसमयाः। तव समयमहोदधेः
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy