SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षां ॥९७॥ गम्यः, द्वादशाङ्ग एव समवतारणीयं, तत्र वर्तते एवेत्यर्थः, द्वादशाङ्गस्य सर्वोत्कृष्टश्रुतत्वेन तद्वयापक (की) भूतस्य सर्व सुन्दरात्मकत्वस्या वश्यंभावात् परं सम्यग्दृशां यावत्सुन्दरं तावत्सर्वमपि द्वादशाङ्गमूलकमुदितं भवति, फलतोऽपि शुभत्वात् तदागमन विधिपरिज्ञानाच्च । तच्च सानुबन्धपुण्यप्रकृतिहेतुः । मिथ्यादृशां तु स्वरूपतः क्वचिदंशे शुभत्वेऽपि फलतोऽशुभत्वमेवेति । विरुद्धखरूपपरिणतयो रुभयोः सम्यग्मिथ्यादृशोरकरण नियमयोरभेदेन भणनमुदितस्याकरण नियमस्यावज्ञया जिनावज्ञा स्यात्, सा चानन्तसंसारहेतुरिति भणितम् । यथा मोक्षाङ्गं स्वरूपतः शुभमपि मनुष्यत्वं संयतजनस्य फलतोऽपि शुभमेव मोक्षप्राप्तिपर्यन्तं सुगतिहेतुत्वात् । तदेव मनुष्यत्वं व्याधादेव फलतोऽशुभमेव, जीवघाताद्यसंयमहेतुत्वेन दुर्गतिहेतुत्वात् । एवं सत्यपि भेदे द्वयोरपि मनुष्यत्वयोस्तुल्यतया भणनं संयतजन मनुष्यत्वस्यावज्ञया जिनावज्ञैव, जिनेनैव भेदेनाभिधानात् दृश्यते च लोकेऽपि लक्षणोपेत- तदनुपेतयोर्मण्योस्तुल्यतया भण लक्षणोपेतमणेरवज्ञया तत्परीक्षकस्यावज्ञैवेति । तदिदमखिलमकाण्डतुण्डताण्डवाडम्बरमात्रम्, अनुपपत्तेरेवाभावात् । द्वादशाङ्गस्य विधिनिषेधविधया स्वसमयपरसमय प्रज्ञापनाविधया वा शुभाशुभसर्वप्रवादमूलत्वे दोषाभावात् । न चाशुभानामपि प्रवादानां ततः प्रवृस्तन्मूलकतयोपादेयताप्रसङ्गः, तज्जन्यप्रतिपत्तिविषयत्वरूपस्य तन्मूलकत्वस्योपादेयत्वाप्रयोजकत्वात्, जिनवचन विहितत्वस्यैवो पादेयतायां तत्रत्वात् । सर्वेषामपि परवादानामवज्ञाकरणे च न जिनावज्ञाऽभ्युपगम्यते, किन्तु तद्गतसुन्दरप्रवादानामेवेति । 'जीवो इन्तव्यः' इत्यादिनयप्रवादानामवज्ञायां जिनावज्ञाऽऽपादनमसङ्गतमेवेति, ततो भावान्तरकल्पनं निर्मूलकमेवासङ्गततरं च । अन्योक्ताकरणनियमावज्ञापरिहारार्थ प्रकृतगाथोपन्यासात्परकल्पितभावस्य च तद्विपरीतत्वात् तदनुसारेणोभयाकरणनियमवर्णनाभेदे भग वदवज्ञाप्रसङ्गात् तद्भेदव्यक्तये अन्याकरणनियमवर्णनावज्ञाया एव न्याय्यत्वप्रसङ्गादिति । तथाऽपि तत्र किञ्चिदुच्यते - द्वादशाङ्गं हि , सटिप्पणा || स्वोपज्ञ वृचिः ॥ गाथा - २४ ॥ ९७ ॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy