SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१६॥ ན་ཏཱ་ཏོ་ सटिप्पणा स्वोपड़ वृत्तिः ॥ गाथा-२४ का शुभाशुभनयलक्षणवस्तूनामाश्रयत्वात् । परं मिथ्यादृशां यद् द्वादशाङ्गं तत्स्वरूपत एव सर्वनयात्मकं सत्तामात्रवर्तित्वात् , न पुनः | फलतोऽपि कस्यापि मिथ्यादृशः कदाचिदपि सर्वांशक्षयोपशमाभावात , मिथ्याइष्टिमात्रस्योत्कृष्टतोऽपि क्षयोपशमः सर्वांशक्षयोपशमलक्षणसमुद्रापेक्षया बिन्दुकल्पो भवति । यदुक्तं-"जयति विजितरागः (केवलालोकशाली, सुरपतिकृतसेवः श्रीमहाबीरदेवः॥ यदसमसमयाब्धेश्चारुगाम्भीर्यभाजः, सकलनयसमूहा बिन्दुभावं भजन्ते ॥१॥) इत्यादि । सम्यग्दृशां तु केषाश्चित्संयतानां फलतोऽपि 'द्वादशाङ्गस्य सर्वनयात्मकत्वम् , सर्वांशक्षयोपशमस्य सम्भवाद् । अत एव गौतमादयः सर्वाक्षरसंनिपातिनः प्रवचने भणिताः, परं तेषां संयतानां सकलमपि द्वादशाङ्गं शुभनयात्मकत्वेनैव परिणमति सावद्यनयविषयकानुज्ञादिवचनप्रवृत्तेरप्यभावाद् । एतेन सर्वेऽपि शाक्यादिप्रवादा जैनागमसमुद्रसम्बन्धिनो विन्दवइति भ्रान्तिरपि निरस्ता, "पद्शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि" इत्यादि| प्रवादानामपि जैनागममूलकत्वापच्या संयतानां सावद्यभाषाप्रवृत्तिप्रसक्तेः । तस्मात्सर्वांशक्षयोपशमसमुत्थद्वादशाङ्गलक्षणसमुद्रस्य पुरस्तादन्यतीथिकाभिमतप्रवादाः समुदिता अपि विन्दूपमा इत्यर्थो युक्तः, अन्यथा 'बिन्दुभावं भजन्ते' इति प्रयोगानुपपत्तिः म्गत् ॥ अवयवाऽवयविनोरुपमानोपमेयभावेन वर्णने निजावयवापेक्षया महत्त्वेऽप्यवयविनो गौरवाभावाद् ,न ह्यङ्गुष्ठो हस्तावयवभावं भजते इति हस्तस्य स्तुतिः सम्भवति । किं च-समुद्रस्य बिन्दव इति भणनमप्यसङ्गतम् , समुद्रप्रभवा हि वेलाकल्लोलोादयो भवन्ति, न पुनर्बिन्दवः, हैं| तेषां चोत्पचिौघाद् हस्तवस्त्रादिव्यापाराद्वा स्यादिति सर्वानुभवसिद्धम् । अन्यथा समुद्रान्निर्गतबिन्दुभिः समुद्रस्य न्यूनत्वापत्या तस्य गाम्भीर्य हानिः स्याद् इत्येवंस्थिते वृत्तिव्याख्यानसङ्गतिरियम्-यद् यस्मात्कारणाद् द्वादशाङ्ग रत्नाकरोपमया शुभाशुभसर्वप्रवादमूलम् , तस्मात्कारणात्स्वरूपतः फलतश्च यावत्सुन्दरमात्मनिष्ठाकरणनियमादिवाच्यवाचकं वाक्यादिकं तत्तसिन् द्वादशाङ्गे, एवकारो RKERALACE
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy