SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ % धर्मपरीक्षा ॥९५॥ 4SXE सटिप्पणा ॥खोपच वृत्तिः ॥ गाथा-२४ ॥९५॥ + गाथाथः, इति चेद् । न, अनमिनिविष्टं प्रत्यन्यदर्शनस्य सर्वस्यैव फलतोऽप्रामाण्यात् , मार्गानुसारिणं प्रति च सुन्दरवचनस्य जैनवचनपर्यवसिततयाऽवशिष्टस्यान्यदर्शनस्यैकान्तमिथ्यात्वतादवस्थ्यात् । कश्चित्तु दृढदृष्टिरागविलुप्तबुद्धिः पातञ्जलादिगताकरणनियमा. दिवाक्यानां जिनवचनमूलत्वमनमिमन्यमानः"सव्वप्पवायमूल" इत्याधुपदेशपद(६९४)गाथायामिमामनुपपात्तमुद्भावयति-'सर्वप्रवादानां मूलं द्वादशाङ्गम्' इत्यत्र प्रवादा नयवादविशेषास्ते च सर्वग्रहणेन शुभा अशुभाश्च ग्राह्याः । तत्र शुभा जीवरक्षाद्यभिप्रायघटिताः, अशुभाश्च ततो विलक्षणाः तेषां च मूलं द्वादशाङ्गं श्रीवीरवचनोबोधितश्रीसुधर्मस्वामिसम्बन्धि न भवति, अशुभानामपि प्रवादानां प्रवृत्तेनिनवचनमूलकत्वप्रसक्त्या शुभानामिवोपादेयता स्यादिति । ते च प्रवादाः शुभाशुभरूपा अपि संख्यया वचनसंख्याकाः। तदुक्तम्-" जावइआ वयणपहा० (तावइया चेव हुति नयवादा)" इत्यादि, तेषां प्रवृत्तिरनादिप्रवाहपतिता कथं जिनवचनमूलिका सम्भवति ?, प्रत्यक्षबाधात् । किं च-तेषां सर्वेषामप्यवज्ञाकरणेन जिनावज्ञाऽभ्युपगमे "जीवो हन्तव्यः" इत्यादिनयप्रवादानामप्यवज्ञाकरणे तथात्वापत्तिरिति ॥ एतद(म)यमन्यभावं कल्पयति-द्वादशाङ्गं हि सर्वोत्कृष्टं श्रुतज्ञानं केवलज्ञानदिवाकरस्य प्रकाशभूतं केवलज्ञानमिव प्रत्यात्मवर्तित्वादधिकरणभेदेन भिन्नमपि स्वरूपतो न भिन्नम् , किन्तु केवलज्ञानमिवैकमेव, तुल्यविषयकत्वात् तुल्य सम्बन्धित्वाच्च । उदयमधिकृत्य तु स्वरूपतोऽपि भिन्नमेव, तत्कारणस्य क्षयोपशमस्य प्रत्यात्मभिन्नत्वात् , श्रुतज्ञानोदयस्य च क्षायोपशर्मिकत्वात् । ते च प्रवादा निजनिजद्वादशाङ्गमूलका अपि सामान्यतो द्वादशाङ्गमूलका एवोच्यन्ते । यथा नानाजलसम्भूतान्यपि कमलानि सामान्यतों जलजान्येव, अत एव सर्वप्रवादानां मूलं द्वादशाङ्गमेवेति सामान्यतोऽभिहितम् , सर्वस्यापि द्वादशाङ्गस्य सर्वोत्कृष्टश्रुतत्वेन सर्वाक्षरसंनिपातात्मकत्वात्, प्रवादा अप्यक्षरात्मका एव । अत एव द्वादशाङ्गं रत्नाकरतुल्यम् , रत्नाकरस्येव तस्याप्यनेकजातीय + 4 - 3
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy