________________
+
+
धर्मपरीक्षा
+
॥९॥
सटिप्पणा स्वोपड़ वृत्तिः ॥ | गाथा-२४ ॥१३॥
+
न्तरीयवर्णितत्वमुपवर्णितं न त्वन्यतीर्थिकेष्वकरणनियमोऽस्तीति भणितम् । वर्णनं च वर्णनीयवस्तुविषयकयथार्थज्ञानसापेक्षमेव, अन्यथा च तथाभूतवर्णनं सम्यगेव न स्यात् , तथा च तद्दर्शनेऽपि धर्मसद्भावप्रसङ्गः। इत्थं च कपिलस्य पुरस्तात् “मनागिहापि धर्मोऽस्तीति" परिव्राजकदर्शनमधिकृत्य मरीचिवचनमुत्सूत्रं न स्यादिति। तदसत , तीर्थान्तरीयाणामपि सद्भुताकरणनियमवर्णनस्य शुभभावविशे. षसापेक्षत्वेन मार्गानुसारितया तेषु सामान्यधर्मसिद्धेः।। शुभभावविशेषसापेक्षत्वं च तस्य "इचो अकरणनियमो, अण्णेहि वि वण्णिओ ससत्थंमि । सुहभावविसेसाओ, ण चेवमेसो ण जुत्तोत्ति ॥" ६९२ (इतोऽकरणनियमोऽन्यैरपि वर्णितः स्वशाखे । शुभभावविशेषाद् न चैवमेव न युक्त इति ॥ ) इति उपदेशपदवचनेनैव प्रसिद्धम् । न चैवंविधस्तेषां शुभाध्ययसायस्तथाभूतज्ञानावरणीयमोहनीयक्षयोपशमजनितत्वेन स्वयमेवोक्तो निरनुबन्धशुभप्रकृतिहेतुत्वादन!हेतुरेवेति परेण वक्तुं युक्तम् । निरुपधिभवबीजप्रहाणेच्छागोचरमार्गानुसा. रिशुभाध्यवसायस्य शुभानुबन्धिपुण्यनिमित्तत्वेनोक्तत्वात् । तदुक्तमपुनर्बन्धकाधिकारे योगबिन्दौ-"क्रोधायबाधितः शान्त, उदा. तस्तु महाशयः ।। शुभानुबन्धिपुण्याच्च, विशिष्टमति(गुण)सङ्गतः ॥१९३॥ ऊहतेऽयमतः प्रायो, भवबीजादिगोचरम् ॥ कान्तादिगतगेयादि, तथा भोगीव सुन्दरम् ।।१९४॥" इति । अत एव परेषामकरणनियमवर्णनं हेतुः शुभभावविशेषो वज्रवदभेद्यः प्रशस्तपरिणामभेद उपदेशपदवृत्तौ विवृतः । अयमेव ह्यस्य विशेषो यद्विशेषशदेनाप्रतिसन्धान विनाऽपि तद्विशेषपर्यवसायित्वमिति । अत एव मार्गा नुसारिणां. परेषां जनामिमतप्रकारेण जीवाद्यनभ्युपगमान्न नास्तिकत्वम् , विप्रतिपन्नांशे पक्षपातपरित्यागे सति वस्तुतस्तदभ्युपगमपर्यवसानाद् । अत एव शुभभावविशेषादकरणनियमवर्णनं मार्गानुसारिणामेव यदृच्छाप्रणयनप्रवृत्तानामर्वाचीनानां च प्रवाहपतितत्वेन घुणाक्षरन्यायेनैवेति जिनवचन विषयकपरोपनिवन्धेऽप्यस्ति विशेषः । तदिदमुक्तं धर्मबिन्दुवृत्तौ अ०१ श्लो०३ “यच्च यदृच्छाप्र
|