________________
धर्मपरीक्षा ॥९२॥
इन्द्रियाणामसंयमः । तज्जयः सम्पदामये, येनेष्टं तेन गम्यताम् ||२||" इत्यादीनीति । कानिचिच्छन्दतोऽर्थतश्च - "जीवदया सच्चवयणं" [ जीवदया सत्यवचनम् ] इत्यादिभिः प्रसिद्धैरेव वाक्यैः सह, यथा-" पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् || अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् || १ ||" इत्यादीनि । एवं स्थिते तस्मिन्नभिन्नार्थेऽकरण नियमादौ वाक्ये विशिष्टक्षयोपशमादिवाक्येन सह, प्रद्वेषः 'परसमयप्रज्ञापनेयम्' इतीर्ष्या, मोहो मूढभावलक्षणों वर्तते बौद्धादिसामान्यधार्मिकजनस्यापि, विशेषतो जिनमूतस्थितानां सर्वनयवादसङ्ग्रहान्मध्यस्यभावानीतहृदयाणां साधुश्रावकाणाम् " अत एवान्यत्राप्यनेनोक्तम् - षो०४-११ “गुणतस्तुल्ये तवे, संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो, दोषः खलु दृष्टिसंमोहः ॥ १॥” इति एतत्सर्व समर्थयन्नाह - "सवप्पवाय मूलं, दुवाल संगं जओ समक्खायं ।। रयणागरतुल्लं खलु, तो सव्वं सुंदरं तंमि ॥ ९९४ ॥ २ ॥ ( सर्वप्रवादमूलं द्वादशाङ्गं यतः समाख्यातम् । रत्नाकरतुल्यं खलु ततः सर्व सुन्दरं तस्मिन् ।।) सर्वप्रवादमूलं - भिक्षुकणभक्षाऽक्षपादादितीर्थान्तरीयदर्शनप्रज्ञापनानामादिकारणम् । किं तद् ? इत्याह- द्वादशाङ्गं द्वादशानामाचारादीनामङ्गानां प्रवचन पुरुषावयत्र भूतानां समाहारो, यतः कारणात् समाख्यातं सम्यक् प्रज्ञप्तम् सिद्धसेनदिवाकरादिभिः, यतः पठ्यते - "उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः || १ ||" अत एव रत्नाकरतुल्यं - क्षीरोदधिप्रभृतिजलनिधिनिभम् खलु निश्वये, तत्तस्मात् सर्वमपरिशेषं सुन्दरं यत्किचित्प्रवादान्तरेषु समुपलभ्यते, तत्तत्र समवतारणीयम् । इत्यकरण नियमादीन्यपि वाक्यानि तेषु तेषु योगशास्त्रेषु व्यासकपिलातीतपतञ्जल्यादिप्रणीतानि जिनवचनमहोदधिमध्यलब्धोदयान्येव दृश्यानीति । तेषामवज्ञाकरणे सकलदुःखमूलभूताया भगवदवज्ञायाः प्रसङ्गात् न काचित्कल्याण सिद्धिरिति ।" यत्तु कश्चिदाह - "जैनानामकरण नियमपरिहारशङ्कानिरासार्थमेव तीर्था
सटिप्पणा
॥ स्वोपज्ञ
वृत्तिः ॥
गाथा - २४ ॥ ९२ ॥