SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्ष ॥८९॥ ! | देशाराधकत्वं देश विराधकत्वं च ततो देशाराधकत्वापेक्षयो भयोपपातसाम्यं दुर्गतित्वनिबन्धनं चैकस्य साहजिकं मिध्यात्वं, अपरस्य च विराधनाजन्यमिति परिभाषायां को दोष इति चेत्, नन्वेवं परिभाषाऽऽश्रयणावश्यकत्वे वृत्तिकृत्स्वारस्येनैव साऽऽश्रयणीया इत्यभिप्रायवानाह - तत् तस्माद्, वृत्तिं परिगृह्य परिभाषा वक्तुं युक्ता । जे इति पादपूरणार्थे निपातः । वृत्तौ हि श्रुतशब्देन ज्ञानदर्शनयोः शीलशब्देन च प्राणातिपातादिक्रियाया एव परिभाषणाद् । अश्रुतवान् शीलवांच मार्गानुसार्येव बालतपस्वी पर्यवस्यतीति भावः । न हि द्रव्यलिङ्गधरोऽभव्यादिर्व्यवहारेण बालतपस्वी वक्तुं युज्यते । " ता एते बालतवस्सिणो दट्ठव्वेति " ( तत एमे बालतपखिनो द्रष्टव्या इति । ) महानिशीथे नागिलवचनं कुशीलेषु बालनिश्चयाभिप्रायकमेवेति । न चैकस्मिन्नेव वाक्ये देशाराधकत्वमशुद्धव्यवहारात्, तदुपपादकं बालतपस्वित्वं च निश्चयादिति वक्तुं युक्तम्, सन्दर्भविरोधात्, किन्तु निश्चयप्रापकाद्वयवहाराद्देशाराधकत्वं तदुपपादकं च मार्गानुसारियमनियमादिक्रियावत्त्वं बालतपस्वित्वमित्येवं सन्दर्भाविरोधः । न च व्यवहारे निश्चये प्रापकत्वाप्रापकत्वाभ्यां विशेषः शास्त्रासिद्ध इति व्यामूढधिया शङ्कनीयम्, योगबिन्दूपदेश पदादावे तद्विशेषप्रसिद्धेः । नन्वस्यामपि परिभाषायां कथं बालतपस्विनो देशाराधकत्वम्, तद्गतमार्गानुसारिक्रियाया अपि मोक्षमार्गत्वाभावात्, तदंशचारित्रक्रियाया एवांशत्वादिति चेद् । न, संग्रहनयादेशादनुयोग द्वारप्रसिद्ध प्रदेश दृष्टान्तेन स्वदेश देशस्यापि स्वदेशत्वाविरोधादिति सूक्ष्ममीक्षणीयम् ॥ २२ ॥ नन्वन्यमार्गस्थशीलादिक्रियाया अपि जैनमार्गानुष्ठानत्वाभावात्कथं तया देशाराधकत्वम् । इत्यत्राह - माणुसारिकिरिया, जइणिच्चिय भावओ उ सव्वत्थ ॥ जेणं जिणोवएसो, चित्तो अपमायसारोवि ॥२३॥ ( मार्गानुसारिक्रिया जैन्येव भावतस्तु सर्वत्र । येन जिनोपदेशचित्रोऽप्रमादसारोऽपि ॥ २३ ॥ ) 1 सटिप्पणा ॥ स्वोपच वृत्तिः ॥ गाथा- २३ ॥ ८९ ॥
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy