SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ क्षेत्र-आकाशं तद्विषयं प्रमाण २, तच द्विविध विभागनिष्पन्नमवगाहनानिष्पन्न च, तत्र स्वल्पवक्तव्यताविषयत्वादवगाहनानिष्पन्नं तावदाह-'एगपए सोगाढाई' त्यादि, 'ओगाहणमणेग' ति अवगाहनमित्येकदेशेन समुदायस्य सूचितत्वादवगाहनानिष्पन्नं क्षेत्रप्रमाणमित्यर्थः, तथानेकविधं भवति, कथमित्याह –एकस्मिन्नाकाशप्रदेशेऽवगाहते यः परमाणुद्वयणुकत्र्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तः पुद्गलसमूहः स एकप्रदेशावगाढः स एवादियंत्रावगाहने तदेकप्रदेशावगाढादि, आदिशब्दाद् द्विप्रदेशावगाढत्रिप्रदेशागाढायसङख्येयवदेशावगाढान्तद्रव्यसमूहपरिग्रहः, ततश्चायमर्थः एकप्रदेशावगाढद्विप्रदेशावगाढत्रिप्रदेशावगाढचतुष्प्रदेशावगाढाद्यसङ्ख्येयप्रदेशावगाढान्तव्यसमूहभेदभिअत्वेनासङ ख्येयप्रकारत्वादवगाहनानिष्पन्न क्षेत्रप्रमाणमनेकविधं भवति, इदं चान्यत्र ग्रन्थे प्रदेशनिष्पन्नमित्युक्तं, एकप्रदेशावगाढादि त्वस्यकादिभिः क्षेत्रप्रदेश निष्पन्नत्वाद् , एकादिक्षेत्रप्रदेशेवगाहनया निष्पन्नमरगाहनानिष्पन्नमित्यत्रापि तत्वत एक एवार्थ इति न कश्चिद्विरोध इति, प्रमाणता चेकप्रदेशावगाढादीनामेकप्रदेशावगाहित्वादिना स्वरूपेणैव प्रमीयमानत्वादिति गाथार्थः ।। १॥ अथ विविधो विशिष्टो वा भागो-भङ गो विकल्पः प्रकारो विभागस्तेन निष्पन्नमियादि पूर्वोक्तब्युत्पत्त्यर्थविशिष्ट विभागनिष्पन्न क्षेत्रप्रमाणमभिधित्सुराह अंगुल विहत्यि रयणी कुच्छो धणु ग्राउयं च सेढी य । पयरं लोगमलोगो खेत्तपमाणस्स पविभागा॥१२॥ अगुलं वितस्तिः त्निः कुक्षिः धनुः गव्यूतं श्रेणिः प्रतरः लोकः अलोकः विभागनिःपन्नस्य क्षेत्रप्रमाणस्यैते 'प्रविभागाः' प्रविकल्या भेदा मान्तीति गाथासङ - क्षेपार्थः ॥ १२ ॥ अथ विस्तरार्थ प्रतिपिपादयिषुः सूत्रकारः स्वयमेवाङ गुलस्वरूपनिरूपणार्थ माह तिविहं च अंगुलं पुण उस्सेहंगुल पमाण आयं च । एक्ककं पुण तिविहं सूई पयरंगुल घणं च ॥ ३ ॥ .. 'अगि रगी' त्यादि गत्यर्थः, गत्यर्थाश्च ज्ञानार्था अपि भवन्त्यतः अंग्यन्ते-प्रमाणतो ज्ञायन्ते पदार्था अनेनेत्यङगुल' प्रतीतमेव, तत्पुनः 'त्रिविध' त्रिप्रकार, तद्यथा--उत्सेधाङ गुल प्रमाणाङ् गुल आत्माङ गुलच, तत्रोत्सेधः-'अणंताणं सुहुमपरमाणुपोग्गलाण समुदयसमिइसमागमेगां से एगे वावहारिए परमाण' इत्यादिक्रमेयो ॥ ३
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy