________________
॥
४
॥
च्छ्या वृद्धिनयनमागमोक्तमलेवानन्तरं वक्ष्यमाणस्वरूपं वा तस्मादुक्तस्वरूपोत्सेधाज्जातमह गुलमुत्सेधाङ्गलं, अथवोत्सेधा--नारकादिशरोराशामुच्चैस्त्वं तत्प्रमाणनिर्णायकत त्वेन तद्विषयमङ्गुलमुत्सेधाङगुल', अव वक्ष्यमाणन्यायेन चतुःशतगुणितात्सहस्रगुणिताद्वा उत्सेधाङ् गुलप्रमाणाज्जातं प्रमाणाङ् गुल, अथवा प्रमाणप्राप्तमङ गुल प्रमाणाङगुल, नातः परं बृहत्तरमङ्गुलमस्त्यत इदमेव प्रमाणप्राप्तमिति भावः, यदिवा समस्तलोकव्यवहारराज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणी| काले तावा गादिदेवो भरतचक्रवर्ती वा तस्य प्रमाणभूतपुरुषस्याङ्गुल प्रमाणाङ्गुल, आत्माङ गुले तु वे यस्मिन् काले भरतसगरादयो मनुष्याः शास्त्रोक्तप्रमाणयुक्ता भवन्ति । तेषां सम्बन्ध्यात्मा गृह्यते तस्यात्मनोऽङ्गुलमात्माङ गुल, इदं च विविधमप्यङ्गुल पुनः प्रत्येक विधा भवति, तद्यथा-सूच्यङ्गुल प्रतरागुल घनाङगुल चेति, तत्र देय॑णामुलायता बाहल्यतस्त्वेकप्रादेशिकी नभःप्रदेशश्रेणि: शूच्यङ्गुलमुच्यते, एतच्च सद्भावतोऽसङ्ख्येयप्र देशशूच्यात्मकमप्यसत्कल्पनया सूच्याकारण प्रदेशवयं व्यवस्थाप्य भावनीयं, तद्यथा... -सूची सच्यैव गुणिता प्रतराङ गुलं भवति, इदमपि परमार्थतोऽसङ् ख्येयप्रदेशात्मकम्, असद्भावतस्त्वेतामेवानन्तरदर्शिता तिप्रदेशात्मिकों सूची तयव गुणयित्वा प्रत्येकं प्रदेशस्त्रयनिष्पन्नं सूचीलयात्मकं नवप्रदेशसङख्यं विनिधाय परिभावनीयम्, अत्रापि स्थापना.........,प्रतरश्च सच्या गुणितो देध्येविष्कम्भवाहल्येषु समसङ्ख्यं घनाङ गुलं भवति, प्रतराङ्गुल' च दैयविष्कम्भाभ्यामेव प्रदेशैः समसख्यं न पिण्डतः तस्य तत्रेकप्रदेशमानत्वादिति प्रतराङ गुलतो धना- |
गुलस्य भेदो भावनीयः, इदमपि सद्भावतो देध्यविष्कम्भबोहल्येषु प्रत्येकमसङ्ख्ये यप्रदेशात्मकम्, असत्प्ररूपणया तु किल सप्तविंशतिप्रदेशमानं, पूर्वनिर्दिष्टत्रिप्रदेशात्मकसूच्याऽनन्तरदर्शितनवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशानां. भावात् , एषां च स्थापनाऽनन्तरनिद्दिष्टनवप्रदेशात्मकप्रतरस्याध उपरि च नव नव प्रदेशान् दत्वा. भावनीया, तथा च सत्यायामविष्कम्भपिण्डैस्तुल्यमिदमापद्यत इति गाथार्थः ॥ १३ ॥ नन्वमीषामुत्सेधाङ् गुलप्रमाणाङगुलात्माङ् गुलानां मध्ये उत्सेधाङ्गुल तावत्किप्रमाणं भवति ? इत्याशङ्क्य तत्प्रमाणनिःपत्तिक्रमनिरूपणार्थमाह---
सत्येण सुतिक्खेणवि छेत्तुं भेत्तुं च जं किर न सका। तं परमाणु सिद्धा वयंति आई पमाणाणं ॥२४॥