________________
६५ ॥
इह यः परमाणुः सुतीपणेनापि शस्त्रेण खड्गादिना कुन्तादिना च यथासङ्ख्यं किल छेत्तु भेत्तुं वा न शक्यते भतिसूक्ष्मत्वात तमवेत्थम्भूतं परमाण वक्ष्यमाणानामुत्सेधाङ गुलनिष्पत्तिकारणभूतानामुच्छ्लक्ष्णलक्ष्णिकादिप्रमाणानाम् 'आदि' प्रथममारम्भकं वदन्ति 'सिद्धा' ज्ञानसिद्धाः केवलिनो, न तु मुक्तिप्राप्ताः, तेषां शरीरायभावेन वचनस्थासम्भवादिति, किलशब्देन च लक्षणमेवास्येदमधीयते न पुनस्तं कोऽपि छेत्तु भेत्तु वा समारभते, अतिश्लफ्णत्वेन छेदनभेदनाविषयत्वात् प्रयोजना-1 भावाच्चेति सूचयति, मयं चेह व्यवहारनयमतेनैव परमाणुत्वेनोच्यते, यावताऽनन्ताणुकस्कन्ध एवासौ, केवल सूक्ष्मपरिणामापन्नत्वेन चक्षु ग्रहणच्छेदनभेदनाद्यविषयत्वादमुमपि व्यवहारनयः परमाणु मन्यत इतीह परमाणुत्वेनोपन्यस्त इति गाथार्थः ।। ६४ ॥ पाह-ननु किं परमाणोरपि निश्चयव्यवहारनयकृतो भेदः समस्ति येनामुमपि व्यवहारनयः परमाणु मन्यते इत्युच्यते इति, सत्यं, अस्त्ये वेल्याह
परमाणू सो दुविहो सुहुमो तह वावहारिओ चेव । सुहुमो य अप्पएसो ववहारनएणतओ खंधो॥१५॥
गीतिकेयं, न तु गाथा ॥ स परमाणुः सामान्येन द्विविधो भवति–'सूक्ष्मः' नैश्चयिकस्तथा व्यावहारिकश्च, तत्र निश्चयनयाभिप्रेत: सूक्ष्मः परमाणुरप्रदेश एव ज्ञातव्यो. निरंशत्वेन स्वव्यतिरिक्तान्यप्रदेशानामभावात् , एवंभूत एव हि परमार्थतः परमाणुरुच्यते, परमः-प्रकृष्ठः प्रकर्षप्राप्तोऽणुः-- सूक्ष्मः परमाणुरिति व्युत्पत्तेः | उक्तञ्च–“कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कायलिट गश्च ॥ १॥” इति, 'कारणमेव तदन्य' मिति, पर्यन्तभूत उत्तरेषां | द्वषणुकादिस्कन्धानां कारणमेवासौ परमाणुन पुनरन्यस्य कस्यापि सत्क कार्यमसौ, ततोऽपि परतोऽन्यस्य कस्यापि तदारम्भकस्याभावात्, द्वषणुकादयस्तु पूर्वोत्तरापेक्षया कार्य कारणं च भवन्तीति भावः, शेषं सुगम, 'वबहारनएण अणंतो खंध' त्ति व्यवहारनयमतेन पुनरनन्तागु निष्पन्नोऽपि स्कन्धो योऽद्यापि सूक्ष्मपरिणामापन्नत्वेन छेत्तु भेत्तुं वा न शक्यते सोऽपि परमाणुरुच्यते, सूक्ष्मत्वेन छेदनभेदनाद्यविषयत्वस्यावापि तुल्यत्वादिति भावार्थः । आह-ननु भवत्वेवं तथाऽपि सूक्ष्मपरमाणुग्व प्रमाणानामादित्वेन कस्मान्नाधिक्रियते, न चासौ प्रमाणानां कारणत्वेन न व्याप्रियते, व्यावहारिकपरमाणोरपि तैरेवानन्तैन्निष्पन्नत्वात् ?, सत्यमुक्त, किन्तु प्रमाणब्यवहारोऽत्र प्रस्तुतः, व्यवहा
మంచుకోవడం తనకు
||