SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ रेच लोकस्य सर्वतानन्ताणुकस्कन्ध एव मुक्त उपयुज्यते न सूक्ष्मपरमाणव इति ज्ञापनार्थ सूक्ष्मपरमाणुः प्रमाणानामादित्वेन हि न विवक्षितः, गम्भोराभिप्रायाश्च सुत्रप्रवृत्तय इत्यन्यदपि सुधिया कारणमभ्यूह्यमिति गीतिकार्थः ॥ १५ ॥ अथोत्तरमनेन व्यावहारिकपरमाणुना यत्प्रमाणं यथा निष्पद्यते तत्तथोपदर्शयन्नाह परमाणू य अधांता सहिया उस्सण्हसहिया एक्का। साऽयंतगुणा संती ससहिया सोऽणु ववहारो ॥६॥ 'परमाणू' इत्यादि, ते च व्यावहारिकपरमाणवोऽनन्ताः 'सहिताः' मिलिताः सन्त एका उच्छ्लक्षणलक्ष्णिाका भवति, अत्यन्त श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव लक्ष्यश्लक्षिणका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्णश्लक्षिणका उच्छ्लक्ष्णश्लक्षिणका, सा चनिन्तगुणा सती 'ससण्हिय' ति श्लक्ष्णश्लक्ष्यिका भवतीत्यर्थः आगमे चेयं पूर्वस्याः सकाशादनेकस्थानेष्वष्टगुणैव निर्णीता, अनेन त्वनन्तगुणा कुतोऽपि लिखितेति केवलिन एव वेत्तारो न वयं अग्दिर्शित्वादिति, 'सोऽणु ववहारो' ति 'सो' तिलिङ्गव्यत्ययाच्चकारस्य च गम्यमानत्वात सा च श्लक्षणलदिणका व्यावहारिकपरमाणोः क्रमेण निष्पन्नत्वादुपचारतो व्यावहारिकः परमाणुरप्युच्यत इत्यर्थः, ततश्चै| तावती परिमाणमाला मुख्यतः श्लक्ष्णश्लदिणका उपचारतस्तु ब्यावहारिकः परमाणुरप्यसाविह प्रोच्यत इति सिद्धमिति गाथार्थः ॥ ६.६ ॥ अनान्तरेऽव्युत्पन्नमतिवि नेयः प्राह---ननु व्यावहारिकः परमाणुरनन्तरणुभिन्निष्पन्नोऽपि छेदनभेदनाद्यविषय उक्तः, तत्किं सर्वोऽप्यनन्ताणुकः स्कन्ध इत्थंभूत एव आहोश्चित्कश्चिच्छेदनादि| विषयोऽपि भवति ? इत्याशङ्क्याह खंधोऽतपएसो अत्थेगइओ जयम्मि छिज्जेज्जा । भिज्जेज्ज व एवइओ नो छिज्जे नो य भिज्जेज्जा ॥ ७ ॥ 'खंधो' इत्यादि, अनन्तैः परमाणुलक्षणैः प्रदेशनिष्पन्नः स्कन्धो 'जगति' अस्मिन् संसारे स कश्चिदस्त्येककः तथाविधवादरपरिणामापन इत्यर्थः यः किमि- | | त्याह-छिज्जेज्जा भिज्जेज्ज व' त्ति 'छिय त' खड्गादिना द्विधा क्रियेत 'भिद्यत कुन्तादिना सच्छिद्रतां गम्येत, एककस्तु स कश्चिदस्ति सूक्ष्मपरिणामापन्न इत्यर्थः, यः | | किमित्याह-न छिद्यत न च भिड़त, काष्ठोपललेष्टवादयो बादरपरिणामापन्ना मांसचक्षुर्गम्याः स्कन्धा भवन्ति छेदनादिविषयाः, सूक्ष्मपरिणामापन्नास्त्वतिशयज्ञानगम्या
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy