SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ॥ २ ॥ | षोडश कर्ममाषका एकः सुवर्गाः ६, एतत्सर्व प्रतिमानमुच्यते, केषु द्रव्येषु पुनः परिच्छेदकत्वेन प्रवत्तं मानमेतद् व्यप्रमाणभेदानां मध्येऽधीयते ? इत्याह-धियन्ते-प्रमाणपरि ज्ञानाय नाराचे व्यवस्थाप्यते यानि तानि धरिकाणि-सुवर्णरजतमुक्ताफलादीनि तेषु विपवे परिच्छेदकत्वेन प्रवत मानत्वात्प्रतिमानरूपं द्रव्यप्रमाणमुच्यते, गगनते-सङ्ख्यायते वस्त्वनेनेति गणिमं गणितं का, तत्पुनरेकद्विव्यादिशोषप्रहेलिकापर्यन्तमिहेव वक्ष्यमाणस्वरूपमिति गाथार्थः ।। ८६ ॥ अथोक्तस्यैवावमानस्य स्वरूपं किञ्चिद्, विशेपिततरमाह दंडधणूजुगनालिय अक्खो मुसलं च होइ चउहत्थं । दसनालियं च रज्जु वियाण अवमाणसण्णाए । ६० ।। बहावमानं समयसागर 'हत्थेण वा दडगा वा' इत्यादिवचनेन हस्तदगडधनुरादिकमुक्त, अत्र च हस्तः कुतश्चित्कारणात्सूत्रकृता यद्यपि नोक्तस्तथाप्युपलक्षणब्याख्यावाद् द्रष्टव्यः, स चेहेव वक्ष्यमाणस्वरूपोत्सेधाङ गुलेन चतुर्विशत्यङ गुलमानो बोद्धव्यः, तेन च हस्तेन प्रत्येकं चतुर्हस्तप्रमाणा एते दगडधनुयुगनालिकाक्षमुशलनामानः षड़ मानविशेषा भवन्ति, एतांश्च षडप्यवमानसशया विजानीहीति सम्बन्धः, एषु च मध्ये नालिका-यष्टिविशेषरूपा अक्षी धूः शेषाः प्रतीतार्थाः, तथा दशनालिकाप्रमाणां चत्वारिंशद्धस्तभानामित्यर्थः रज्जु व मानविशेषरूपमवमानसम्झया विजानीहि, आह-ननु यदि दण्डादयः सर्वेऽपि प्रत्येकं चतुर्हस्तप्रमाणा एव न न्यूनाधिकमानास्तहों कनव दण्डाद्यन्यतरोपादानेन सिद्ध्यति, किं शेषापादानेन , सत्यं, किन्तु वास्तुभूम्यादिक मेयवस्तुनि लाकरूढिवशादेतेषां समानप्रमाणानामपि भेदेन व्याप्रियमाणत्वात्सव षामुपादानं, लोक हि वास्तुभूम्यादिकं हस्तेनेव मोयते, कृषिकर्मादिविषयभतं क्षेत्र तु चतुर्हस्तवंशलक्षणेन दगडेनैव, मार्गस्तु गब्यूतियोजनादिपरिज्ञानार्थ धनुषेव, खातं तु कूपादि नालि| कयैव चतुर्हस्तप्रमाणयष्टिविशेषरूपया मोयते, एवं युगादेरपि देशादिरूढितः प्रतिनियतवस्तुव्यापारो द्रष्टव्यः उक्तम्च"भूमिम्मि हत्यमेज खेत्तं दंडो घणु' च पंथमि । * खायं च नालियाए वियाण प्रोमाणपरिमाणे ॥ १ ॥ इति गाथार्थः ।। ६० ।। उक्तं च पञ्चप्रकारमपि द्रव्यपूमाणमथ क्षेत्रप्रमागामभिधित्सुराह खेत्तपमाणं दुविहं विभाग ओगाहणाए निष्फन्नं । एगपएसोगाढाइ होइ ओगाहणमणेगं ॥ ११ ॥ ॥ १ ॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy