________________
॥ ६१ ॥
एव चाष्टमभागवर्त्तित्वाद् द्वात्रिंशत्पलपरिमाणाऽष्टभागिका, तस्या एव चतुर्थोशवत्तित्वाच्चतुःषष्टिपलप्रमाणा चतुर्भागिका, तस्या एवार्द्धभागवर्तिनी अष्टाविंशत्यधिकपलशतमानार्द्धमाणिका, षट्पचाशदधिकपलशतद्वयममाणा तु माणिका, अनेन सर्व्वणापि रसमानेन मगधादेश एवं घृततैलादीनि मीयन्ते, एतच्च रसमान सूत्रकृता नामग्राहं न प्रतिपादितं, सङ्क्षिप्तरुचिसत्त्वानुप्रहमात्त्रफलत्वादस्य सूत्रस्येति गाथार्थः ॥ ८८ ॥ तदेवं धान्यमानरसमानलक्षणभेदद्वययुक्तमपि प्रतिपादितं मानरूपं द्रव्यप्रमाणामथोन्मानादिद्रव्यप्रमाणस्वरूपनिर्णयार्थमाह
कसाइयमुम्माणं अवमाणं चेव होइ दंडाई। पडिमाणं धरिमेसु य भणियं एक्काइयं गणिमं ॥ ८६ ॥
उद्-ऊर्ध्वमुत्क्षिप्य मोयते-तोलनद्वारेण परिच्छिद्यते कांस्यादिकमनेनेत्युन्मानं -कार्षिकतुलादिकं केषु पुनद्रव्येषु विषये व्याप्रियमाणमिदं द्रव्यप्रमाणमध्ये पठ्यते ? इत्याह-'कंसाइय' मिति सुब्व्यत्ययात्कांस्यादिवित्यर्थः, तत्र कांस्यं प्रतीतं प्रदिशब्दात्तामु लोहकर्म्मासगुडखण्डादेः परिग्रहः, एषामनेनोन्मीयमानत्वादेतद्विषयमिदमित्यर्थः, इदं चागमे 'अद्धकरिसो करिसो' इत्यादिनाऽर्द्धकर्षादिकं भारपर्यन्तमुक्तं तत्र पलस्याष्टमो भागोऽर्द्धकर्षस्तस्यैव चतुर्थोशः कर्षस्तदर्द्ध स्वर्द्धपलं द्वे मले पलं पन्चोत्तरपलशतमाना तुला दशभिस्तुलाभिरर्द्धभारो विंशतितुलाभिर्भार इत्येतै मंगधादेशे कांस्याद्युन्मीयत इति सर्व्वमिदमुन्मानमुच्यते ननु यद्य यमागमे ऋषांदिकमुन्मानमुच्यते तर्हि कथमिह कार्षिकतुलादिकमित्युक्त ? सत्यं किन्त्वर्द्धकर्षादिपरिज्ञानोपायत्वादुपचारतस्तदपि तथोच्यत इत्यदोषः । उक्तमुन्मानं यथावमानस्वरूपमाहअवमीयते-प्रमाणविशिष्ट ं भूम्यादिषैस्त्ववगम्यतेऽनेनेत्यवमानं तत्पुनर्दगडादिकमेव भवति, आदिशब्देन हस्तधनुर्युगरज्वादिपरिग्रहः, एषां च हस्तदगडधनुर्यु गादीनां विशेषतः स्वरूपमुत्तरगाथायां वृक्ष्यामः । अथ प्रतिमानमाह – 'पडिमाण' मित्यादि, मीयते – परिच्छिद्यतेऽनेनेति मानं मेयस्य – सुवर्णदः प्रतिरूपं द्वितीयपक्षं प्रतियोगित्वेन प्रतितुल्यं-प्रतिसदृशं मानं प्रतिमानं – गुज्जाकाकण्यादि, एतदपि सिद्धान्ते "गुज्जा कागणी निम्फोवो” इत्यादिना बहुभेदमभिहितं तत्र गुन्जा- 'चिणोद्विय' त्ति प्रतीतैव १ सपादगुल्जा तु काकणी २ सविभागकाकण्या त्रिभागोनगुज्जाद्वयेन विनित्र तो निष्पावो-वलः ३ त्रयो निष्पावाः कर्म्ममाषकः ४ द्वादश कर्मभावका एको भयडलकः ५
11 29 11