________________
11 20 11
तु स्वगतप्र देशान् विहायापरा विविधो विशिष्टो वा भागा-भङ्गो विकल्पः प्रकार इतियावत् तेन निप्पन्नं विभागनिपन्नं तच्चाधिकृत्याह---
माणुस्माणपमाणं पडिमाणं गणियमेव य विभागं । पत्थकुडवाइ धन्ने चउभागविवडियं च रसे ॥ ८८ ॥
विभागनिष्पन्नं प्रमाणं पञ्चधा भवति, तद्यथा - मानमुन्मानमवमानं प्रतिमानं गणिमं चेति तत्र मानलक्षणं प्रमाणं पुनरपि द्विधा-धान्यमानप्रमाणं रसमानप्रमाणं च तत्र मीयतेऽनेनेति मानं तच्च तत्प्रमाणं चेति मानप्रमाणं धान्यविषयं मानप्रमाणं धान्यमानप्रमाणं तच्च मगधदेशप्रसिद्ध' सिद्धान्ते 'दो असईउ पराई' त्या दिनाऽसत्यादिकं प्रतिपादितं तथाहि प्रश्नुते तत्प्रभवत्वेन समस्तधान्यमानानि व्याप्तोत्तीत्यशतिः प्रवाङ्मुखहस्त. लस्पा तत्परिच्छिन्न धान्यमपि तथोच्यते, तदद्वयेन चे निष्पन्ना नवाकारताव्यवस्थापितप्रान्जलकरतलरूपा प्रसृतिः, द्व े च प्रसूती सेतिका सा च नेह प्रसिद्धा गृह्यते, मागधमानस्यैव प्रतिपिपादयिषितत्वाद्, त इयं मगधाजनपदप्रसिद्धा काचिदवगन्तब्या, चतस्रः सेतिकाः कुडवः ; ते चत्वारः प्रस्थः प्रमी चत्वार माढकस्ते चत्वारो द्रोणः फट्या भ्राढकानां जघन्यः कुम्भः श्रशीत्याऽऽढकानां मध्यमः कुम्भः शतेनाढकानामुत्कृष्टः कुम्भः अष्टभिराढकशतैर्बाहः अनेन धान्यमानप्रमाणेन मगधादेशे व्रीह्यादिधान्यानि मीयन्ते, अत्र च सुतं 'पत्थकुडवाइ धन्ने' इति ब्रुवता प्रस्थकुडवलक्षणं धान्यमानं साचादुपात्तं, शेषं त्वसतिप्रसृल्याढकादिकमादिशब्दाद् गृहीतं, रसमानप्रमाणस्वरूपमाह 'चउभागविवह्नियं च रसे' ति रसो-वृतलादिस्तद्विषयं मानं धान्यमानात् सेतिकादेः सकाशाच्चतुर्भागविवर्द्धितं चतुर्थोशेनाभ्यधिकं भवति, धान्यस्याद्रवरूपत्वा च्छिखा संभवति रसस्य तु द्रवात्मकत्वान्न तत्सम्भवः, अतो धान्यमानादभ्यधिक चतुर्थोशलक्षण्याऽन्तः शिखया युक्तं किलेतद्विधीयते, धान्यमानं त्वितरापेक्षया हीनस्वचतुर्भागलक्षणया बहिःशिखया समन्वितं भवति, अतो रसमानमन्तःशिखं धान्यमान्यं तु बहिःशिखमित्यं वं सामर्थ्याद् द्वितयमपि तुल्यं भवति तल रसमानमागमे - 'चउपलमाणा चउसहिये' त्यादिना चतुःषष्ट्यादिषमुक्तं तथाहि षट्पचाशदधिकपलशतद्वयमानं माणिकानामकं रसमानमिह सर्वोपरि वक्ष्यते, तस्य चतुःषष्टितमभागनिष्पन्नत्वात्सान्वर्थे चतुष्पष्टिकानामप्रथमं रसमानम् इयं च सामर्थ्यादेव चतुष्पलमाना द्रष्टव्या, तथा तस्या एव माणिकाया द्वात्रिंशत्तमभागवर्त्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा माणिकाया एवं षोडशभागवत्तित्वात्षोडशपलप्रमाणा पोटशिका, तस्या
॥ ६० ॥