SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ || = || 20 100000522002 200 प्रसिद्ध या प्रतिप्राणिप्रसिद्धस्य नभसोऽप्रमाणकता वक्तुमुचिता, नाप्यतीन्द्रियेष्वर्थेष्वेकान्ततो युक्तयन्वेषणपरैर्भाव्यं, यदाह – “आगमवोपपत्तिच, सम्पूर्ण दृष्टिकारणम् । तोन्द्रियाणामर्थानां सद्भावप्रतिपतये || १ ||” तस्माज्जीवपुद्गलावकाशहेतुतास्वरूपयाऽवगाहनया नभो लक्ष्यत इति सा तस्य लक्षणं भवति, तेन २ नवपुराणादिभावेन प्रतिनियतफलकुसुमप्रदानादिभावेन वा परिणमनं वर्त्तनं वर्त्तना सेव साध्यत्वेन गुणो यस्य कालस्य स वर्त्त नागुणः कालो बोद्धव्यः, इदमुक्त' भवति यथोक्तस्वरूपा वर्त्तना कालेनेव साध्यते मतः सा तस्य गुणः प्रोच्यते, लक्षणं च तस्य सा भवति, तया कालस्य लक्ष्यमा यत्त्वात् तथाहि प्रस्तीह जगति कालः, स्तम्भकुम्भादिवस्तूनां नवपुराणादिपरिणतिलक्षणाया बकुलाशोकसहकारचम्पकादीनां प्रतिनियतसमयनियमेन पुष्पफलादिप्रदानलक्षणायाश्च वर्त्तनायास्तमन्तरेणानुपपत्तः, सत्स्वपि हि तेषु वृक्षादिद्रव्येषु सत्यपि च तत्र ग्रामनगरादिक क्षेत्र प्रतिनियते वसन्तत्वादिकाल एव वृक्षादीनां पुष्पफलप्रसवादिका वर्त्तना दृश्यते, यदि स्वभावादेवेयमिष्यते तदा नित्यं सत्त्वमसत्त्वं वा प्रसज्येत, नियामकसद्भाव एव भावानां कादाचित्कत्वसम्भवात् यस्त्वस्या नियामकः स काल एवेति प्रतिपक्तत्र्यम्, अत्र च बहु वक्तव्यं तत्तु नोच्यते ग्रन्थप्रपञ्चभयादन्यतो तत्वाच्चेति, तस्मादुक्तन्यायेन वर्त्तनया कालस्य लच्यमाणत्वात्तस्यासौ लक्षणं भवति, प्रथ पुद्गलास्तिकायस्य लक्षणमभिधित्सुराह - 'रूवर से' त्यादि, रूपरसगन्धस्पर्शा यथासङख्यं नयनरसनागस्पर्शनेन्द्रियमाया गुगाविशेषास्तं यदि येषां संस्थानसंहननादीनां ते रूपरसगन्धस्पर्शादयस्तेषां कारणं हेतुर्निबन्धनं रूपरसगन्धस्पर्शादिकारणं, पुद्रलास्तिकाय इति प्रक्रमागम्यते, न केवलं रूपरसादीनां पुद्गलाः कारणं, किन्तु सोत्तरभेदज्ञानावरणाद्यष्टप्रकारकम्मबन्धस्य च त एव कारणमिति कारणशब्दो डमरुकमणिन्यायेनावापि सम्बध्यते, यथा हि स्वासकोशकपालकुम्भशरावोदञ्चनादिरूपेण परिणमन्ती मृतेषां परिणामि कारणां भवति तथा पुला अपि रूपरसगन्धस्पर्शादिभावेनाष्ठप्रकारकर्म्मबन्धरूपेण च परिण मन्तस्तेषां परिणामि कारणं भवतोति सप्रतोतमेवेदम्, एवं च पुद्गलानां कारणत्वं रूपरसगन्धस्पर्शादीनां कर्म्मपरिणामस्य च कार्यत्वमादर्शयता ते रूपादयः कर्म्मपरिणामच पुद्गलानां लक्षणत्वेन सामर्थ्यादुक्ता वेदितव्याः, प्रत्यक्षप्रमाणत एवं प्रतिप्राणिप्रसिद्ध रूपादिभिर्जगद्वे चित्र यान्यथानुपपत्तिसिद्धेन च कर्म्मबन्धेन स्वकारणभूतस्य पुद्गलास्तिकायस्थ लक्ष्यमाणत्वाहनधूमादाविवेति गाथार्थः ॥ ७६ ॥ तदेवं जीवसमासप्ररूपणाप्रसङ्गायातानि प्ररूपितानि सलक्षणान्यजीवद्रव्याण्यपि तत्प्ररूपणाच्च सप्रसङ्गमपि, ॥ ८८ ॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy