SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ PORNERPF अथवा एता एव समयावलिकादिकाः कला:-कालांशरूपास्ताभिनितस्तासां वा समूह इति कालः-समयावलिकादिरूप एव, मथ यथा धर्मास्तिकाय इत्युक्तं तथा कालास्तिकाय इति कस्मान्नोच्यते इति चेत्, नेव, प्रदेशबहुत्व एव तदुपपत्तेः, अन च तन्नास्ति, अतीतानागतसमयानां विनानुत्पन्नत्वेन प्रज्ञापंकप्ररूपणाकाले वर्तमानसमयलक्षण. | स्येकस्यैव प्रदेशस्य सद्भावादिति, ययेवमावलिकामुहूर्तदिवसादिप्ररूपणाया अप्यभावप्रसङ्गः प्राप्नोति, भावलिकादीनामप्यसङ्ख्येयसमयात्मकत्वेन प्रदेशबहुत्व एवोपपत्ते, al सत्यमेतत् , केवलं स्थिरस्थरकालत्रयवर्तिवस्त्यभ्युपगमपरव्यवहारनयमतमाश्रित्यावलिकादिकालः प्ररूप्यते, 'निश्चयनयस्तु मन्यते-न धर्मास्तिकायादौ प्रदेशराशिरिखावलिकादा ववस्थितः समयराशिरस्ति, मतीतानागतानां विनष्टानुत्पन्नत्वेन वर्तमानसमयमानस्यैव सत्वादिति न वास्तवा मावलिकादयो, नापि कालेऽस्तिकायतेति, अत एव कालोऽन्यत्र वर्तमानसमयमावतयैव निर्धायं प्रोक्तो न सामान्येन, यदाह ---"का भंते ! दव्वा पन्नत्ता ? गोयमा ! छ दव्या पन्नता, तंजहा---धम्मत्थिकए प्रधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए पोग्गलस्थिकाए प्रद्धासमए" इत्यल' विस्तरेण, तदेवमेतानि धर्मास्तिकायादीनि चत्वार्यप्यजीवद्रव्याणि 'मरूपीणि' अमूर्तानि ज्ञातव्यानि, पुद्गलाश्च तेऽस्तिकायाश्चेति पुद्गलास्तिकाय इति योऽन्यत्रोक्तः स स्कन्धदेशप्रदेशपरमाणुभेदात् चतुर्द्धा भवति रूपवांश्चेत्यत माह----'संधा वेसे' त्यादि, तत स्कन्धाः ---अनन्तानन्तपरमाणुप्रचयरूपा मांसचक्षुायाः स्तम्भकुम्भादयस्तदग्राह्या अचित्तमहास्कन्धादयोऽपि, देशास्तु तेषामेवोर्खाधोमध्यभागवृत्तयः स्थूलखगडरूपा अवयवाः, प्रदेशास्तु | देशानामेव सूक्ष्मशकलस्वरूपाः अवयवा एव, 'अणुत्तिऽवि य' ति अणु रित्यपि च, निरंशैकपरमाणु रपि चेत्यर्थः, जातिनिर्देशश्चायं व्यक्तिपक्षे त्वणवोऽपि चेति द्रष्टव्यः, विसकलितकाकिपरमाणूनामपि पुद्गलास्तिकायेऽनन्तानंतत्वानुपपत्तेः, तदेते स्कन्धदेशप्रदेशपरमाणुरूपाश्चतुबिधा अपि पुद्रलाः पुद्रलास्तिकाया अजीवद्रव्यलक्षणा रूपिणो-मूर्ता एव ज्ञातव्याः, पूरणलगलनधर्मकत्वाश्चेते पुद्गला उच्यन्ते, एते हि कुतश्चिद् द्रव्याद्गलन्ति वियुज्यन्ते किञ्चितु द्रव्यं स्वसंयोगतः पूरयन्ति ---पुष्टुं कुर्वन्ति, तदेवमेतानि धर्मास्तिकायादोनि पञ्चापि मृर्तामूर्तस्वरूपाण्यजीवद्रव्याणि ज्ञातव्यानीति गाथार्थः ॥ ८॥ आह - ननु जीवद्रव्यस्योपयोगो लक्षणमुक्तमतस्तद्दर्शनात्तस्य सत्ता प्रतिपद्यामहे, | धर्मास्तिकायादीनां त्वजीवद्रव्याणां किं लक्षणं यत्समीक्ष्य तत्सत्ता प्रतीमः १ इत्याशङ्क्याह
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy