SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ k ॥ समयसमुद्रगम्यत्वादिति । माह-ननु यदि जीवसमासा यथोक्त स्वरूपा भवन्ति तय जीवाः कथम्भूताः किंलक्षणाश्च भवन्ति इति कथ्यता, विपक्षस्वरूपे हि कथिते तद् यावृत्तः। प्रस्तुतोऽर्थः सुखावसेवो भवतीत्याशङ्क्य जीवसमासेषु प्रस्तुतेष्वपि तद्विपक्षतयाऽऽसन्नभूतानजीवानपि प्रसङ्गतः प्रतिपादयितुं प्रस्तावनार्थमाह -'एवमिहे त्यादि, यथा | पूर्वोक्तस्वरूपाणि जीवद्रव्याणि ज्ञातानि तुशब्दस्यापिशब्दार्थत्वादेवमजीवद्रव्यागयपि 'इह' अस्मिल्लोक विज्ञ यानीति सम्बन्धः, तैरपि ज्ञातैरत व ग्रन्थे पुरस्तादन्यत्र च प्रयोजनसिद्धिसभावादिति भावः, कथम्भूतानि पुनरजीवद्रव्याणि विज्ञ यानि? इत्याह-भावरहिय' ति भावा-अनन्तरोक्तद्वादशोपयोगलक्षणा जीवपर्यायास्तैर्भाव रहितान्यजीवद्रव्याणि प्रतिपत्तव्यानीति गाथार्थः ॥ ८४ ॥ कानि पुनस्तानि इति विनेयवचनमाशङ्क्य मूर्तामूर्तभेदभिन्नान्यजोवद्रव्यागयेवाभिधित्सुराह . ते उण धम्माधम्मा आगास अरूविणो तहा कालो। खंधा देस पएसा अणुत्तिऽविय पोग्गला रूवी ॥ ८५॥ ते उण' ति यान्यनन्तरगाथायामजीवद्रव्याणि विज्ञ यत्वेनोपदिष्टानि तानि पुना रूप्यरूपिभेदता द्विधा भान्तीति रोषः, तत्रारूपोणि-ममूर्तानि, कानि पुन-2 |स्तानि? इत्याह-- 'धम्माधम्मा आगास' त्ति धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकाया इत्यर्थः, तथा कालवेत्येतानि चत्वार्यजीवद्रव्याण्यमूर्तानि ज्ञातव्यानि, तत्र जीवपुगलानां स्वत एव क्रियापरिणतानां तत्स्वभावोपष्टम्भद्वारेण धरणाद्धर्मः मस्तयः-प्रदेशास्तेषां कायः–सङ्घातोऽस्तिकायः धर्मश्वासावस्तिकायश्चेति समासः, सकललोकव्यापा असङ्ख्येयप्रदेशात्मको दब्यविशेष इत्यर्थः, जीवपुद्गलानामेव तथैव गतिपरिणताना तत्स्वभावाधरणादधर्मः, जीवपुद्गलानां स्थित्युपष्टम्भकारक इत्यर्थः, शेषं धर्मास्तिकायकत्स वमिति, सर्ववस्त्वाकाशनादाकाशं, किमुक्तं भवति? -मा-मर्यादया यत्संयोगेऽपि स्वकीयस्वकीयस्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया काशन्ते-स्वभाव| लाभेनावस्थितिकरणेन च दीप्यन्ते पदार्थसार्धा यत्र तदाकाशमिति, मथवा मा -अभिविधिना सर्वात्मना तत्संयोगानुभवनलक्षणेन काशन्ते-तथैव दीप्यन्ते पदार्था यत्र तदाकाशं तब तदस्तिकायश्चेत्याकाशास्तिकायः, लोकालोकव्यापी मनन्तप्रदेशात्मको द्रव्यविशेष इत्यर्थः, कलनं समस्तवस्तुस्तोमस्य सङ्ख्यानमिति कालः प्रथवा कल| यन्ति-समयोऽस्यानेन रूपेणोत्पन्नस्यावलिकामुहुर्नादि चेत्यादिप्रकारेण सर्वमपि सचेतनाचेतन वस्त्ववगच्छन्ति केक्ल्यादयोऽनेनेति कालः-समयावलिकादिरूपो द्रव्यविशेषः,
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy