SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विगुरुपतिः इह भवान्तरप्रस्थितजीवस्य ऋजुश्रेणयपेक्षयाऽन्यस्या विशिष्टाया वक्रायाः श्रेणेग्रहणं-स्वीकरणं विप्रहो, वक्ररेण्यारम्भरूपं वक्तिमित्यर्थः, तेन विग्रहेस परित्यकपूर्वशरीरस्य जन्तो वान्तरोत्पत्तिस्थानाभिमुखं गमनं गतिविग्रहगतिस्तामापन्नाः—प्राप्ता जन्तवोऽनाहारका इति सर्वत्र संबध्यते, तथा समवहताः समुद्धातवर्तिनो यथासम्भवं सयोगिकेव| लिनः प्रयोगिकेवलिनध सिद्धाश्वेते सर्वेऽप्यनाहारकाः,तथाहि -यदा जीवस्य मरणस्थानादयतनभवोत्पत्तिस्थानमुपर्यधस्त्रियम्वा समश्रेण्या प्रान्जलमेव भवति तदाऽयमेकेनैव सम येन तदवाप्नोति, ऋजुगतिवेयमुच्यते, आहारकश्वास्यां नियमाद् भवति, परित्याज्योपादेयशरीरमोक्षग्रहणसंस्पर्शभावेनाहरणीय दलानां व्यवच्छेदाभावादिति, यदा तु मरणस्थानादुत्पत्तिस्थानं किञ्चिद्वकं भवति यथैशानकोणोपरिभागादान यकोणाधस्तनभागः तदा प्रथमसमये ईशानकोणोपरिभागादाम यकोणोपरिभागं गत्वा तदधस्तनभागलक्षणस्योत्य त्तिस्थानस्य समत्रेणी प्रतिपद्यते, जीवपुद्गलानामनुश्रेणिगमनात्प्रथमसमय एवोत्पत्तिस्थानप्राप्तः, ततो द्वितीयसमवे वकण्यन्तरारम्भरूपं विग्रहं विधाय तत्रोत्पत्तिस्थाने प्राणी समुत्पद्यत इति, इयं च विग्रहगतिरुच्यते, एकेन वकण्यन्तरारम्भरूपेण विग्रहेणोपलक्षिता गतिविप्रहगतिरितिकृत्वा, अस्यां चेकविग्रहायां द्विसमयायां विग्रहगतौ प्राधसमय पूर्व शरीरस्य मुक्तत्वादयतनस्य त्वद्याप्यप्राप्तत्वादनाहारक इति प्रज्ञप्याद्यागमानुसारिभिरभ्युपगम्यते, [पुस्तकान्तरे' परभापडमे साडे।' इति वचनात् मुच्यनानं हि पूर्वशरीरमस्मिन्ना र यसमये मुक्तमसारीमूतमियनाहारकोऽयमत्र क्रियाकालनिष्ठाकालयोरभेदवादिनिश्चयनयमतस्यैतैराश्रयणादिति भावः,] तत्वार्थटीकाद्यनुसारिणस्तु मन्यन्ते—प्रत्राद्यसमयेऽप्य नाहारकोऽसौ न भवति, पूर्वशरीरं ह्य त मुच्यमानं न मुक्तसद्भावापन्नमत एवायं पूर्वभवचरमसमय एव न तु परभवप्रथमसमयः,पर्वशरीरस्याद्यापि सद्भावात,तत्सद्भावे च न विद्यते | माहारोऽस्येत्यनाहारक इति वक्तुमशक्यमेवेत्यनाहारकोऽयमिह न भवति, क्रियाकालनिष्ठाकालयोर्मेदवादिव्यवहारनयमतस्यतैराश्रयणादितिहृदयम् , इदं च मतद्वयमप्यत कथचित्प्रमाणमुभयनयमतात्मकत्वात् जिनमतस्येति, द्वितीयसमये तत्पत्तिस्थानप्रभात राहारक एक्त्यनाविवाद इति, यदा पुनमरणस्थानादुत्पत्तिस्थानं वक्रतरं भवति यथा तस्मादेवे शानकोणोपरिभागान्नैऋतकोणाधस्तनप्रदेशस्तदा प्रथमसमये वायब्दकोणोपरिभागं गच्छति, ततो द्वितीयसमय विहेण नेतकोणोपरिभागमागच्छति, तृतीयसमये विग्रहेणैव | तदधस्तनभागस्वरूपमुत्पत्तिस्थानमवान त्ति, तदेवं विग्रहद्वयोपेता तिसमया विग्रहगतिरियं भाविता, न चैते लयः समया भनेनैव प्रकारेण संभवन्तीति प्रतिपतव्यं, किन्तुक्ता
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy