________________
मालस्य सर्वत्र तुल्यत्वात, परमार्थचिन्तायां तु सम्यक्त्वस्योपघातकं दर्शनमोहनीयमेवेत्यलं विस्तरेण, तेषां च मतिज्ञानावरणश्रु तज्ञानानावरणदर्शनमोहानां कर्मपरमाणुस्कन्ध
स्पधकपूरूपणा रूपाणां स्पर्द्ध कानि-रसप्रचयविशेषलक्षणानि 'द्विविधादि' द्विप्रकाराणि भवन्ति, कथमित्याह –'सर्वदेशोपधातीनि' सर्व स्वावार्यज्ञानादिकं गुणमुपहन्तुं शीलं येषां तानि सर्वोपघातीनि, तस्यैव स्वावार्यगुणस्य देशमुपहन्तं शीला येषां तानि देशोषघातीनि, आह-ननु स्पर्द्धकमिति तावत्किमुच्यते ? कश्वेह शब्दार्थः ?, उच्यते-इह तावत्प्रत्येकमनन्तः परमाणुभिनिष्पन्नाननन्तस्कन्धान् कर्मतया प्राणी प्रतिसमयमुपादत्त, तत्र चैकैकस्कन्धे य सर्वजघन्यरसः परमाणस्तद्गतोऽपि रसः कवलिप्रज्ञया छिद्यमानः किल स4जीवेभ्योऽनन्तगुणान् भागान् प्रयच्छति, अपरस्तु परमाणुस्तानप्येकभागाधिकान् अन्यः पुनरेतानपि द्वधधिकान् अपरस्तु तानपि न यधिकानित्याद्य कोत्तरवृद्धया तावन्नेयं । यावदन्यः परमाणुमौ लराशेरनन्तगुणानपि रसभागान् प्रयच्छति,एवं स्थिते विवक्षितकर्मस्कन्धे ये केचन जघन्यरसाः परमाणवस्तेषां समुदायः समानजातीयत्वादेका वर्गणेति प्रतिपाद्यते, अन्येषां त्वेकेन रसभागेनाधिकानामणूनां समुदायो द्वितीया वर्गणा, अपरेषां तु रसभागद्वयवद्धानां समूहस्तृतीया वर्गणा, अन्येषां रसभागनयाभ्यधिकानां सङघातःचतुर्थीवर्गणा, एवमनया दिशा एकैकरसभागाधिकानां परमाणूनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागेऽभव्येभ्योऽनन्तगुणाः संप्राप्यन्ते, एतीसां चैताबतीनां वर्गणानां समुदायः स्पर्द्धकमित्युच्यते, शब्दार्थस्त्वयं-स्पर्द्धत इवात्रोत्तरोत्तररसवृद्धधा परमाणुवर्गणा इति स्पर्द्धकमिति, इत ऊर्ध्वमेकोत्तरया निरन्तरबुद्धया प्रवर्द्धमानरसयक्ताः परमाणवो न लभ्यन्ते, किं तर्हि?, प्रथमस्पर्द्धकचरमवर्गणापरमाणुगतरसभागेभ्यः सर्वजीवानन्तगुणरसभागवृद्धेनैव रसेन समन्विताः परमाणयः प्राप्यन्त इत्यतो द्वितीयं 12 स्पर्धकमारभ्यते, प्रतापि च जघन्यरसानां परमाणूनामेका वर्गणा, तत एकेन रसभागेन वृद्धानां द्वितीया रसभागद्वयाधिकानां तृतीयेत्येवं तावन्नेयं यावत्पर्वोक्तसङ ख्योपेता वर्गणा इति द्वितीयं स्पर्द्धकम्, अथ पुनरपि रसस्यैकोत्तरा बृद्धिर्न लभ्यते किन्तु सर्वजीवानन्तगुणरसभागाधिक एव रसः प्राप्यते, इतस्तेनैव क्रमेण तृतीयं स्पर्धकमाभ्यते, पुनरनेनैव न्यायेन चतुर्थमित्यादि यावदनन्तानि रसस्पर्द्धकान्युत्तिष्ठन्ति, एतेषु च स्पद्धकेषु रसो द्विधा भवति-शुभोऽशुभश्च, तत्र शुभप्रकृतीनां सम्बन्धी शुभः, अशुभप्रकृतीना तु सम्बन्धी अशुभः, तत्र शुभो रसः सैरिभीतीरेय्यादिरसोपमो भवत्यतस्तदृष्टान्तादसौ भावनीयः, तथाहि-यथा महिषीक्षीरेक्ष्वादिरसः सहजोऽक्वथितो मधुर एकस्थानिकव्यपदे--
॥ १ ॥