________________
६६ ॥
सुकलेस" मित्यादि, नवरं कृष्णलेश्यया सहालापके तत्र गता नीललेश्याऽवसपतीति वक्तव्यं, आगन्तुककृष्णलेश्योदयेऽवस्थितनीलले श्याया श्रवसर्पस्यैव घटनात्, एवं यथा नीलोश्याऽवस्त्योपरितनोश्याभिः सह चारिता तथा कापोतीप्रभृतयोऽपि चारणीयाः, सर्वत्र चाधस्तनलेश्यया सहालापकेऽवसर्पतीति वाच्यम्, उपरितनोश्यया उत्सर्पतीति यावच्छुकलेश्या प्राप्यावसर्पतीत्येवं वाच्यं तदुपरिलेश्याया एवाभावादित्यलं प्रसङ्गे न तस्मादागन्तुकले श्योदये व्यवस्थितलेश्योदयो न विरुध्यते सर्व्वथा तत्प्रतिघातस्यांक न्यायेन निवारितत्वादिति स्थितं, तदेवं नारकदेवानां द्रव्यतो या यस्योक्ता लेश्या सेव तस्य भवति, भावलेश्यास्तु सर्वषां सर्व्वा एव संभवन्तीति समर्थि सप्तमपृथ्वीनारकादीनां सम्यक्त्वलाभादिकाले तेजसोश्यादिसंभवः, संगमकदेवादीनां श्रीमन्महावीरोपसर्गकरणादिसमये कृष्णादिलेश्यासद्भावश्च' निर्विवादो घटत एवेति गाथार्थः ॥ ७४ ॥ अवसितं सप्रस लेश्याद्वारमथ भव्यद्वारमुच्यते तत्र मुक्तिपर्यायेण भविष्यन्तीति भव्याः, य इदानीमयापि निर्वाणं न प्राप्नुवन्ति आगामिनि तु काले निश्चयेन तत्प्राप्स्यन्ति ते भव्या इत्यर्थः तद्विपरीतास्त्वभव्याः, अत एव भव्या भवसिद्धिका प्रप्युच्यन्ते, भवा भाविनी सिद्धिर्येषां ते भवसिद्धिका इतिकृत्वा, तद्विपरीतास्त्वभवसिद्धिकाः, इदं च भव्यानां भव्यत्वमनादिकालसिद्धं शाश्वतमेव न पुनः सामग्यन्तरेण पश्चाद्भवत्यपगच्छति वा अभव्यत्वमप्यभव्यानामित्यमेव व्यं, एताभ्यां च भव्यत्वाभव्यत्वाभ्यां सांसारिको जीवराशिः सब्र्वोऽपि संगृहीतो द्रष्टव्यः तत्र चाभव्याः स्वल्पाः भव्यास्तु तदनन्तगुणा बोद्धव्याः, सिद्धानामनन्तभागवर्त्तित्वेनागमेऽभत्र्यानां पठितत्वात, भव्यानां तु सिद्धेभ्यो ऽनन्तगुणत्वेन तत्रैवाधीतत्वादिति, ग्रह-ननु यदि भव्यत्वमभव्यत्वं चानादिकालसंसिद्धमभ्युपगम्यते तदा वक्तव्यं किमेतत्प्रत्यक्षगम्यमनुमानगम्यं वाड़, उच्यते, केवलिनां प्रत्यक्षगम्यं व्यवहारिणां त्वनुमानाद्यवसेयं, नन्वनुमानं लिङ्गात्प्रवर्तते, किं च तलिङ्गं येन व्यवहारिणो भव्यत्वमवगच्छेयुः इत्यलाभिदध्महे यः संसारविपक्षभूतं मोक्षं मन्वते तदवाप्त्यभिलाषं च सस्यूहं वहति, किमहं भव्योऽभव्यो वा यदि मन्यस्तदा शोभनमथामन्यस्तदा घिग्मामित्यादि चिन्तां च कदाचिदपि करोति स इत्यादिप्रकाचिन ज्ञायते भव्य इति यस्य तु कदाचिदपि नेयं चिन्ता समुत्पन्ना समुत्पद्यते समुत्पत्स्यते वा स ज्ञायतेऽभव्य इति वृद्धा व्याचक्षते यत उक्तमाचारटीकायाम् — “ अभव्यस्य हि भव्याभव्याशङ्काया अभावा" दित्यादि । तदेवं निरूपिताः स्वरूपतः सङ्क्षेपेण भव्या अभव्याथ, अथ सूत्रकारः स्वयमेव गुणस्थानलक्षणान् जी
4
लेश्यात्सप यादि, भव्या| भव्यस्वरूपं च
॥ ६६ ॥