________________
न्तगुणाशुभरसानि स्पर्शतस्तु तैजसलेश्यावदुक्तव्यो नवरं कोमलतमोऽत्र द्रष्टव्यः, शुकलेश्याहेतुभूतानि तु द्रव्याणि वर्णतः शङ्खकुन्दक्षीरहारादिसमानवर्णानि गन्धतस्तैजसलेश्या- अवस्थितवदेव नवरं शुभतमोऽत्र द्रष्टव्यः, रसतस्तु खर्जुरद्राक्षाक्षीरशक रादप्यनन्तगुणशुभरसानि, स्पर्शतस्तु तैजसलेश्यावदेव नवरं कोमलतमोऽत्र वाच्य इति। एवं च सत्येतैः लेश्याविचारः कृष्णादिव्यैर्जीवस्य ये परिणामविशेषा जन्यन्ते मुख्यतया त एव लेश्याशब्देनोच्यन्ते, गौणावृत्त्या पुनः कारणे कार्योपचारलक्षणया एतान्यपि कृष्णादिद्रव्याणि लेश्याशब्देन । व्यपदिश्यन्ते, ततश्च कृष्णादिद्रव्याणि द्रव्यरूपा लेश्या द्रव्यलेश्या इति निद्दिश्यन्ते, ततो भवनपतिव्यन्तराणां याः कृष्णानीलाकापोतीतैजसीलक्षणाश्चतस्रो लेश्या उत्तास्ता द्रव्यलेश्या एव द्रष्टव्याः, कस्यचिद्देवस्य जन्मत आरभ्य पर्यन्तं यावत्कृष्णले श्याद्रव्याण्येवोदितानि प्राप्यन्ते कस्यचिन्नोललेश्याद्रव्यागयेव कस्यचित्कापातलेश्यान्येव कस्यचिदाजन्मत एवावसानं यावत्तैजसलेण्याद्रव्याण्येवोदयवन्ति लभ्यन्ते, नतु पनलेश्याशुक्ललेश्याद्रव्याणामवस्थितोदयः कस्यापि तेवस्तीत्यर्थः, एवं शेषदेवानां नारकाणां च मध्ये या यस्य पूर्व लेश्या प्रोक्ता सा तस्य द्रव्यलेश्या दृष्टव्या, तत्तले श्याद्रव्याणि तस्य देवस्य नारकस्य वा सव्वदेवावस्थितादयानि द्रष्टव्यानीति तात्पर्य, भावमाश्रित्य पुनः सर्वेषां देवनारकाणां षडपि लेश्या भवन्तीति, आह-ननु भावोऽपि द्रव्यलेश्याजन्यत्वेनैव निर्दिष्टो, यदि च द्रव्याणि तेषां षट्प्रकाराणि न संभवन्ति तहि भावाऽपि षट्प्रकारः कथं स्यात् ? कारणमन्तरेण कार्यस्य भवतो निर्हेतुकत्वप्रसङ्गात् १, सत्यं, किन्त्ववस्थितोदयत्वमाश्रित्य यानि यस्योक्तानि द्रव्याणि तान्येव तस्य भवन्ति, कादाचिकत्वेन तूदयेन भणितेभ्योऽन्यान्यपि तानि तेषामुदये प्राप्यन्त एव, तथाहि-सप्तमनरकपृथिव्यां सर्वदा कृष्णलेश्याद्रव्यागयेवावस्थितादयानि प्राप्यन्ते, कदाचित्तु सम्यक्तूबलाभादिकाले
तेजस्यादिलेश्याद्रव्याण्यप्युदयमागच्छन्ति, ततस्ते सम्यक्त वादिभावं प्रतिपद्यन्ते, अवश्यं चैतदङ्गीकर्तव्यमन्यथा सम्यक्त्वलाभस्तेषां समये यः प्रोक्तः स नापपद्यत, अशु* भलेश्यापरिणामे तदसम्भवादिति, आह “यद्य व तर्ष वस्थितागन्तुकलेश्याद्रव्यजन्यपरिणामद्वयस्यैककालं सद्भावः प्रसज्यते, न च युगपत्परस्परविरुद्धपरिणामसत्ता समयेऽभ्यु| पगम्यते, युक्तथा वा सङ्गच्छते, सत्यं, यान्यागन्तुकलेश्याद्रव्याणि कदाचिदुदयमागच्छन्ति तैरवस्थितलेश्याद्रव्याणि प्रतिहतसामर्थ्यानि तथा विधीयन्ते यथा स्वजन्यं परिणामं जनयितुन शक वन्ति, ततधागन्तुकलेश्याद्रव्योदयकाले तजन्य एवेकः परिणामः संभवति, तत्कुतः परिणामद्वयसद्भावः इति, आह—यद्ययं तर्हि नारकदेवानां याऽवस्थिता
సుఖం అంతులు ఉంచు SS