SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ॥६३ ।। गुणस्थानकेषु पृध्यादिषु लेश्याः गा. कृष्णा नीला कापोती चेत्याद्य लेश्यावयं मिथ्यादृष्टरारभ्याविरतसम्यग्दृष्टयन्तं भवति न परतः, इदमुक्त भवति-मिथ्यादृष्टयाद्यविरतसम्यग्दृष्टयन्ता एव जीवा यथोक्तलेश्यालये वर्तन्ते न देशविरतादयः, तेषां विशुद्धत्वात, लेश्यानां चामूषामविशुद्धत्वादिति, 'संजयंतऽपरे'त्ति 'अपरे' अन्ये पुनराहुः-संयतान्तमिदं लेश्यालयं भवति, मिध्यादृष्टेरारभ्य प्रमत्तसंयतगुणस्थानपर्यन्ता जीवा एतस्मिन् कृष्णादिलेश्यालये वर्तन्ते न त्वप्रनतादय इति भावः, देशविरतप्रमत्तावस्थायामपि तथाविधविशुद्धरभावादिदं लेश्यालयं ते प्रतिपद्यन्त इति हृदयं, 'तेऊपम्हा सण्माऽप्पमाय'त्ति सज्ञिग्रहणे नात्र मिथ्यादृष्टिः सञी गृह्यते, तं मिथ्यादृष्टिसज्ञिपञ्चन्द्रियमादौ कृत्वाऽकारस्थान्तर्गतस्येहादर्शनात न विद्यते प्रमादो यनासौ अप्रमादः संयतस्तमन्ते व्यवस्थाप्य तैजसी पद्मा च लेश्या प्राप्यते, इदमुक्त' भवति-मिथ्यादृष्टयादिष्वप्रमत्तसंयतान्तेषु सप्तसु गुणस्थानकेषु वर्तमानस्य सझिनो जीवस्य तैजसीपमालक्षणमपि लेश्याद्वयं : वर्तते, न त्वपूर्वकरणादिषु, तेषु शुक्ललेश्याया एवंकस्थाः सद्भावादिति, आह-ननु शास्त्रान्तरेषु पृथिव्यब्वनस्पतीनामपि तैजसी लेश्या श्रूयतेऽत्र तु सम्झिन एवासौ प्रोक्ता तत्कथं न विरोधः ? इति, अनोच्यते, इहानन्तरवक्ष्यमाणन्यायेन लेश्या द्विविधा भवन्ति-द्रव्यती भावतश्च, । तले शानान्तानां देवानां याऽत्र व द्रव्यतस्तैजसीलेश्या वक्ष्यते तद्युक्त एव कश्चिन्मिथ्यादृष्टिदेवस्तेभ्यश्चयुत्वा पृथिव्यब्वनस्पतिपुत्पद्यत, तस्य च सा पूर्वभवसम्बन्धिनी | तेजसी द्रव्यलेश्यैवेत्यत्र नाभिहिता, भावलेश्यानामेवेह गुणस्थानकेषु चिन्तयितुमभिप्रेतत्वात् , अथवा पृथिव्यादीनामपर्याप्तावस्थायामेवैषा भवति, न परतः, कृष्णाघशुभलेश्यापरावर्तनाद्, अतोऽल्पकालभावित्वेनेह नासौ निर्दिष्ट त्यविरोध इति, 'सुक्का सजोगंतति मिथ्यादृष्टिमादौ कृत्वा सयोगिकेवलिपर्यन्ता शुक्ललेश्या प्राप्यते, मिथ्यादृष्टयादिषु सयोगिकेवलिपर्यन्तेषु त्रयोदशसु गुणस्थानकेषु शुक्लेश्या लभ्यत इत्यर्थः, अयोगिनोऽलेश्यत्वादिति गाथार्थः ।। ७० ॥ अथास्मिन्ने ब लेश्याद्वारे प्रस्तुते पृथिव्यादिजीवानां मध्ये कस्य कियत्यः काश्च लेश्याः संभवन्तीतिशिष्योपयोगित्वानिरूपयन्नाह पुढविदगहरिय भवणे वण जोइसिया असंखनरतिरिया। सेसेगिंदियवियला तियलेसा भावलेसाए ॥ ७१ ।। 'पुढवी'त्यादि, पृथिव्युदकवनस्पतयस्तथाऽसुरकुमारादयो भवनपतयो व्यन्तराश्च प्रत्येकं कृष्णानीलाकापीतीतेजसीलेश्याचतुष्टययुक्ता भवन्तीतिशेषः,
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy