________________
११॥
तत्र गुणस्थानकलक्षणा जीवसमासाश्चिन्तनीयाः, ते च प्रस्तुतगाथया सूत्रकृताऽपि चिन्तिता अतः सैव ब्याख्यायते-'चउरिंदिया' इति, चतुरिन्द्रिया आदिर्यस्य पन्चेन्द्रिया- I दर्शनलेश्यादेरसौ चतुरिन्द्रियादिमिथ्यादृष्टिरिति शेषः, ततश्चतुरिन्द्रियादिमिथ्यादृष्टेरारभ्य ‘छउमे ति क्षीणकषायमस्थं यावत् 'चक्खुत्ति चक्षुर्दशनं प्राप्यते, मिथ्यादृष्ट्यादिषु द्वारे क्षीणमोहान्तेषु द्वादशसु गुणस्थानकेषु चक्षुर्दर्शनं भवतीत्यर्थः, यच हे चतुरिन्द्रियादित्वेन चक्षु दर्शनाभावादिति मिथ्यादृष्टेविशेषणं तदेकेन्द्रियीदियत्रीन्द्रियाणां मन्तव्यं, सयोग्ययोगिकेवलिनोस्तु चक्षुर्दर्शनं न संभवति, 'अतीन्द्रियाः केवलिन' इति वचनादिति' अचक्ख य सव्वछउमत्थेत्ति सर्वस्मिन्नपि छमस्येऽचक्षुर्दर्शनं लभ्यत इत्यर्थः इदमुक्तं भवति-चक्षुर्दर्शनचिन्तायां ये वीन्द्रियान्ता जीवा वर्जितास्तेवप्यचक्षुर्दर्शनमवाप्यतेऽतस्तेऽपि नेह वर्जनीयाः, स्पर्शनादीन्द्रियाणां तेषु सद्भावात, तत्सद्भावे चाचक्षुर्दर्शनस्याब्याहत्त्वात् , एवं च सत्यनन्तरोक्तंषु द्वादशगुणस्थानेषु सामान्येन व सर्वबाचक्षुर्दर्शनमवाप्यत इतिस्थितं, 'सम्मे य श्रोहिदंसि' त्ति अविरतसम्यउदृष्ट रारभ्य क्षीणमोहगुणस्थानकमेव याववधिदर्शनमवाप्यते, परतः केवलित्वेन मिथ्यादृष्ट्यादीनां च विभङ्गज्ञानित्वेनावधेरभावात, अपरे तु मिथ्यादृष्टयादीनामवधिदर्शनं प्रतिपद्यन्ते परं तन्मतमिह नाश्रितं, केवलदंसी सनामे य' त्ति समानं नाम ययोस्तौ सनामानौ तयोः सनाम्नोः सयोग्ययोगिकेवलिनोः केवलदर्शनं लभ्यते, केवलदर्शनेन चाभ्यां समाननामत्वं केवलशब्दप्रवृत्तिमात्रकृतं वेदितव्यमिति गाथार्थः ॥६३ ॥ उक्त दर्शनद्वारमथ लेण्याद्वारमुच्यते, तत्र 'लिश श्लेषणे'लिश्यते-संश्लिष्यते:कर्मणा जीवो यकाभिस्ता लेश्याः सकलकर्मप्रकृतिनिष्यन्दभूतकृष्णानीलकापोततेजःपद्मशुरुवर्णद्रव्यसहायस्य जीवस्याशुभाः शुभाव परिणामविशेषा इति हृदयं, यदाह-"कृष्णादिद्रव्यसाचिव्यात, परिणामो य आत्मनः । स्फटिकस्येव तत्त्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥” एताश्च परिणामविशेषात्मिका लेश्याः कृष्णा नीला कापोती तेजसी पमा शुकत्येवंभूतैर्नामभिर्विशेषिताः षट् भवन्ति, तासु चाद्यास्तिस्रोऽशुभा अपरास्तु शुभाः, एतासां च विशेषतः स्वरूपावगमार्थ जम्बूखादकदृष्टान्तो ग्रामघातकदृष्टान्तश्चोच्यते-तत्र कस्मिन् । महाकानने बुभुक्षातुराः षट् पुरुषाः सुविशेषविपक्कसरसफलप्रागभारावनमितसकलशाखान सकलशाखाग्रनिलीनमत्तमधुपमधुकरीवापूर्यमाण्यसकलदिक्चक्रवालं सकलदिक्चवालमिलत्सकुन्तसन्दोहसमारब्धबहलकोलाहलं सकुन्तसन्दोहसमारब्धबहलकोलाहलप्रीयमाणच्छायाविश्रान्तापहस्तितश्रमपथिकजनसमाजश्रवणयुगलं युगलधर्मसमयस्मृतिसमाधान- ॥६१ ॥