________________
अवधेर्भदषट्
कम्।
॥५१॥ IM सागरोपमाणि भवन्ति, अवस्थितप्रतिपक्षभूतं तु चलं यदनुत्तरमुराणामिव नैकत्र क्षेत्रे ऽवतिष्ठते किन्तु अच्युतदेवादीनामिवान्यान्यक्षेत्र घु संचरति, द्रव्यपर्यायवप्यन्यान्येषु शीघ्र
यद्गति, लन्धितोऽप्युत्कृष्टां स्थितिमसम्पूयैव यदपगच्छति पुनश्च भवति तदिह सर्व चलत्वेन विवक्षितमित्यर्थः, हीयमानं त्वपचीयमानं, सा च हीयमानता क्षेत्रतः कालतो द्रव्यतः पर्यायतश्च, तथाहि-क्षेत्रकालावाश्रित्य किञ्चिदवधिज्ञानं प्रभूतविषयत्वेनोत्पद्य पश्चादसङ्ख्यातभागहान्या वा सङ्ख्यातभागहान्या वा सङ्ख्यातगुणहान्या वाऽसङ्ख्यातगुगाहान्या वा हीयते न त्वनन्तभागहान्याऽनन्तगुणहान्या वा, क्षेत्रकालयोरनन्तयोरखधेरविषयत्वादेव, द्रव्याण्याश्रित्य पुनर्बहुविषयत्वेन संभूय पश्चादनन्तभागहान्याऽनन्तगुणहान्या वाऽपचीयते, द्रव्याणामनन्तानामप्यवधिज्ञानेन दर्शनात, यथा च पर्यायेषु षड्विधा हानिर्वक्ष्यत तथा द्रव्ये न भवति, तत्स्वाभाव्यादिति, पर्यायानाश्रित्य प्रचुरविषयत्वेनाविर्भावनतोऽनन्तभागहान्या वा असङ्ख्यातभागहान्या वा सङ्ख्यातभागहान्या वा सङ स्यातगुणहान्या वा:सङ ख्यातगुणहान्या वाऽनन्तगुणहान्या वा हीयते वा,
अनन्तेषु द्रव्येञ्चनन्तानामपि पर्यायाणामवधिगोचरत्वादिति, हीयमानप्रतिपक्षभूतं पुनवर्धमानकं, तता वर्द्धमानतापि क्षेत्रकालद्रव्यपयिषु वक्तव्या, तथाहि-क्षेत्रकालावाश्रित्य SI किञ्चिदवधिज्ञानं स्तोकविषयत्वेनोत्पद्य ततोऽसह ख्यातभागाद्धया वा सङ्ख्यातभागवृद्धथा वा सङ्ख्यातगुणानद्धया वासह ख्यातगुणावृद्धधा वा वर्द्धत इत्यादि सर्व हीय
मानकवद्वक्तव्यं, केवलं हानिस्थाने वृद्धिवक्तव्या, शेष प्रायस्तथैवेति । उक्ता अवधिज्ञानस्य षड् भेदाः, अथ मनःपर्यायज्ञानभेदानभिधित्सुराह-'उज्जुमई' त्यादि, 'मणनाणे' त्ति विभक्तिव्यत्ययान्मनःपर्यायज्ञानं द्विविधम्-ऋजुमति विपुलमति चेति, तन्त्र मननं मतिर्विषयपरिच्छित्तिरित्यर्थः, ऋची-अल्पतरविशेषविषयतया मुग्धा मतियस्य तद् ऋजुमति, विपुला-बहुतरविशेषविषयतया पट्वी मतिर्यस्य तद्विपुलमति, तत्र ऋजुमतेरीतृतीयाङ गुलहीनो मनुष्यलोकः क्षेत्रतो विषयः, विपुलमतेस्तु स एव सम्पूणों । निर्मलतरश्च, कालतस्त्वेतावति क्षेले भूतमाविनोः पल्यापमास ज्येयभागयोरतीतानागतानि सझिमनोरूपाणि मूर्तद्रव्याणि, द्रव्यतोऽपि चैतान्येव द्रव्याणि, भावतस्तु तत्पर्यायाश्चिन्तनानुगुणपरिणतिरूपाः, चिन्तनीयं तु बाह्यमर्थ मूर्तममूर्त वा त्रिकालगोचरमप्यनुमानादेव जानाति, यत एतत्परिणतान्येतानि मनोद्रव्याणि तत एतदन्यथानुपपत्तेरयमनेनार्थश्चिन्तित इति लेखाक्षरदर्शनात् तदुक्तार्थमिव प्रत्यक्षीकृत्य मनोद्रव्येभ्यश्चिन्तितमर्थमनुमिमीते न पुनः सानाजानाति, स चैष बाह्याभ्यन्तररूपो द्विविधोऽपि विषयोs