________________
॥५०॥ 1 ज्ञाने किञ्चिद्भेदतो निस्पयितुमाह
श्रुतावध्यो दाः अंगपविद्वियरसुय ओहि भवे पतिगुणं च विन्नेयं । सुरनारएसु य भवे भवं पति सेसमियरे सु॥६॥ श्रुतज्ञानं द्विधा-अङ्गप्रविष्टम्-अङ्गस्वरूपमाचारादिकम्, इतरतु-अट्गबाह्यमावश्यकदशवकालिकोत्तराध्ययनादिकम्, अवधिज्ञानमपि तावद् द्विविधं विज्ञ यमिति दर्शयति-भवं प्रति गुणं च, प्रतीति संबध्यते, भवप्रत्ययिकं गुणनिमित्तं चयर्थः, तत्र सुरेषु नरकेषु च 'भवे' त्ति भवेत् सम्पद्यत, कथम्भूतम् ? इत्याह-भवं प्रति, भवप्रत्यविकमेवे-- तेष्ववधिज्ञानं भवेदित्यर्थः, भवः-सुरलोके नरके च जन्मैव प्रत्ययः-कारणं यस्य न तु तदतिरिक्तं तपःप्रभृतिगुणान्तरं तद्भवप्रत्ययिकमवधिज्ञानं, स्वावरणक्षयोपशम एव सर्वसावधिविज्ञानस्य निमित्त, केवलं सोऽपि तत्कारणभूतः क्षयोपशमो देवलोके नरकेषु जन्ममात्रानन्तरमेव तपःप्रभृतिगुणानपेक्षः सम्पद्यत इति देवनारकाणां पक्षिणां गगनोत्प
तनसामर्थ्यमिव भवप्रत्यक्किमवधिज्ञानमुच्यते, इतरेषु-पुनस्तिर्यग्मनुभ्येषु शेष-भणितपरिशिष्ट गुणप्रत्ययिकमवधिज्ञानं भवेदिति गाथार्थः ।। ६३ ॥ प्रकारान्तरेणाप्यवIN धिज्ञानभेदानाह
अणुगामि अवट्ठिय हीयमाणमिइ तं भवे सपडिवक्खं । उज्जुमई विउलमई मणनाणे केवलं एकं ॥ ६४॥
अनुगाम्यवस्थितं हीयमानमिति सप्रतिपक्षं तदवधिज्ञानं पोता भवति, तत्र यस्मिन् प्रदेशे व्यवस्थितस्योत्पन्न ततोऽन्येष्वपि प्रदेशेषु संचरतो लोचनवद्यदनुगच्छति तदनुगाम्यवधिज्ञानमुच्यते, तत्प्रतिपक्षस्त्वननुगामि यत्प्रदेशान्तरषु संचरतः स्थानप्रदीपवनानुगच्छतीत्यर्थः ; अवतिष्ठत इत्यवस्थितम्-अविचलितस्वरूपम्, अवस्थानं चेहावधेरा
धारत उपयोगतो लब्धितश्च चिन्त्यते, तत्राधार:-क्षेत्र, तौ कस्मिन्नेव चेलं त्रयस्त्रिंशत्सागरंपमाण्यवस्थितोऽवधिरनुत्तरसुराणां प्राप्यते, उपयोगतस्तु द्रव्येऽवधिज्ञानस्योपयोग 14 उत्कृष्टतोअन्तर्मुहूर्तमवतिष्ठते, पययिषु पुनरुत्कृष्टतः सप्त चाष्टौ वा समयानिति, अन्ये त्वभिदधति-पय विषु सप्त गुणेष्वष्टाविति, तत्र सहवर्सिनो गुणाः शुक्रत्वादयः क्रमवर्तिनः
पर्याया नवपुराणादयः, यथोत्तरं द्रव्यगुणपर्यायाणां सूक्ष्मत्वात् स्ताकोपयोगतेति भावनीय, लब्धितस्त्ववस्थानमवधिज्ञानस्य तवान्यत्र वा क्षेत्र उत्कृष्टतः सातिरेकषट्षष्टि- ॥५०॥