SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ जीवस& मासाः गा.8 To समयत्रयेऽपि तस्मिन् भक्यनाहारको नियमा ॥ २ ॥" दिति, तदेवं केवलिनः समवहता यथोक्तेषु निषु समयेषु कार्मणकाययोगे प्राप्यन्ते, शेषास्तु देशवि रतादयो जीवसमासाः कार्मणकायप्रोगे न प्राप्यन्ते, सयोगिकेवलिनं विहायान्यस्य विग्रहगतावेव केवलकार्मणकाययोगसद्भावात्, तस्यां च देशविरतत्वादिगुणानामसद्भावात्,सम्यमिथ्यादृष्टिरपि विग्रहगतौ न संभवति,मृतस्यैव भवान्तरस्थानमप्राप्नुवतो विग्रहगतिभावः, तस्य चागमे मरणनिषेधात् , एतदेवाहन सम्ममिच्छो कुणइ काल'मिति, सम्यग्मिध्यादृष्टित्वे वर्तमानो जन्तुः कालं न करोत्येव, तत्स्वाभाव्यादिति, अथ 'सच्चे असञ्चमोसे सराणी उ सजोगिकेवली जावे' त्यादिगाथात्रयोक्तस्यैवार्थस्य तात्पर्यमुच्यते, तयथा-मिथ्यादृष्टिसास्वादनाविरतसम्यग्दृष्टिलक्षणास्त्रयो जीवसमासास्तावच्चतुर्विधमनोयोगचतुर्विधवाग्योगौदारिकौदारिकमिश्रर्व क्रियवै क्रियमिश्रकार्मणकाययोगलक्षणेषु त्रयोदशसु योगेषु वर्तन्ते, सम्यग्मिथ्यादृष्टिस्तु चतुर्विधमन योगचतुर्विधवाग्योगौदारिकशरीखे क्रियशरीरलक्षणेषु दशसु योगेषु वर्तन्ते, देशविरतस्तु दशस्वेतेष्वेव तथैकोदशे वैक्रियमित्रकाययोगे वर्तते, प्रमत्तसंयतस्त्येतेष्वेवाहारकद्विकसहितेषु त्रयोदशसु योगेषु प्राप्यते, अप्रमत्तादयः क्षीणमोहान्ताः पुनः षड् जीवसमासाश्चतुर्विधमनोयोगचतुर्विधवाग्योगौदारिकशरीरलक्षणेषु नवसु योगेषु लभ्यन्ते, सयोगिकेवली तु सत्यमनोयोगासत्यामृषमनोयोगसत्यवाग्योगासत्यामृषवाग्योगौदारिकौदारिकमिश्रकामणकाययोगलक्षणेषु सप्तसु योगेषु वर्तन्त इत्येतत्पूर्वोक्तान्थेनेह प्रतिपादितं, तथा च सति--" चउरो जीवसमासा तेरसजोगेसु दसम एक्को य। एकारससु य एकार सत्तयु एको नवसु छक्क ॥ १॥" अयोगिकेवलिगुणास्थानं तु योगेषु न वर्तत एवायोगत्वादेवेत्येतदिह समर्थितं भवतीति गाथार्थः ।। ५८ ।। उक्तं योगद्वारमथ वेदद्वारमभिधित्सुराह नेरइया य नपुसा तिरिक्खमणुया तिवेयया हुति। देवा य इत्थिपुरिसा गेविज्जाई पुरिसवेया ॥ ५६ ।। वेद्यते-स्न्यादिकामा भिलाषजनकत्वेनानुभयत इति वेदः-चरित्रमोहनीयान्तर्गतः कर्मम्पुद्गलसमूहविशेष ; अय च लिधा, तद्यथा-स्त्रियाः पुरुषं प्रति कामाभिलाषजनको वेदः स्त्रीवेदः, पुरुषस्य स्रियं प्रति कामाभिलाषजनको वेदः पुरुषवेदः, नपुंसकस्योभयं प्रति कामाभिलाषजनको वेदो नपुंसकवेदः, एष त्रिविधोऽपि वेद आधारमन्तरेण निराश्रयो न संभवत्यतो नारकाद्याश्रयद्वारेणैव निरूप्यते-नारकास्तादन्नपुरकाः, नारके घु नपुंसक वेद एवं प्राप्यते, तेषामतिरुङ्लिष्टत्वेन शेषवेदद्वयाभावादिति भावः, तिर्यग्मनुभ्यात्रिवेदका ॥ ४६॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy