SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ।। ४४॥ योगेषु गुणस्थान ' गा.५७ पूर्वविदः प्रमत्तसंयता आहारककाययोगिनोऽपि भवन्ति, 'आह-नन्वाहारकप्रारम्भकाले एव लब्ध्युपजीवनौत्सुक्यसम्भवतस्तत्कर्तुः प्रमत्तत्वं स्थानान्तरे प्रोक्तं, आहारकशरीर- स्य निष्पत्तौ पुनरौत्सुक्यनिवृत्तरप्रमत्तोऽप्यसौ निर्दिष्टस्तत्कथमिह प्रमत्तत्वेनैव प्रोक्तः १, सत्य, किन्तु स्थानान्तरेऽपि येषामेतन्मतमस्ति यदुताहारकस्य प्रारम्भे निष्ठायां च तत्कर्ता प्रमत्त एव भवति लब्ध्युपजीवनत्वादिति तन्मतमिहात्तिमित्यदोषः, वैक्रियस्यापीदमेव मतमाश्रित्याप्रमते निषेधः क्रियते इति भावनीयमिति । 'सव्वे पजत्तया मीसत्ति सर्वेऽपि-यथानिर्दिष्टविशेषणविशिष्टाः पूर्वाभिहिताः सुरादयोऽपर्याप्ता-अपर्याप्तावस्थावर्तिनो यावदद्यापि शरीरपोतिन समयंत इति हृदयं, तावदमी मिश्रकाययोगवन्तो भवन्ति, तद्यथा-सुरनारकास्तावदपर्याप्तावस्थायां सर्वेऽपि पूर्वोक्तस्वरूपवैक्रियमित्रकाययोगवन्तः प्राप्यन्ते, केवलं तदवस्थायां मिथ्यादृष्टिसास्वादनाविरतस्वरूपा एवैते द्रष्टव्याः, नतु सम्यगमिथ्यादृष्टयः, अपर्याप्तावस्थायां सम्यग्मिथ्यात्वासम्भवात्, तथाहि-तदवस्थायां तत्पारभविकं वा भवेत्ताविकं वा ? ; न तावत्पारभविक सम्यग्मिथ्यादृष्टेमरणस्यैव निषेधात, 'न सम्ममिच्छो कुणइ काल' मिति वचनात्, नापि ताविकं, यतो यदि मिथ्यादृष्टिः सन् पर्वभवादायातस्तदाऽपर्याप्त एव सम्यग्मिथ्यात्वं न गच्छति, तदवस्थस्य तथाविधविशुद्धयभावात्, अथ सास्वादनः सन् पर्वभवादायातस्तदा षडावलिका (त): ऊर्द्धमवश्य मिथ्यात्वमेव गच्छति, न सम्यग्मिथ्यात्वम्, अथ सम्यग्मिथ्यादृष्टिः संस्तत्रोत्पन्नस्तह्य स्थानन्तर्येण सम्यग्मिथ्यात्वे गमनमेव नास्ति, अन्यत्र निषिद्धत्वाद, यत उक्त–'मिच्छत्ता संकंती अविरुद्धा होइ दोसु पुंजेसु । मिस्सायो वा दोसुं सम्म मिच्छं न उण मीसं ॥१॥” इति, तस्मान्नापर्याप्तावस्थायाममी सम्यग्मिथ्यादृष्टयः, ततः सम्यग्मिथ्यादृष्टिसुरनारकाणां न वै क्रियमिश्रसम्भव' इति स्थितं, नरतिर्य-चस्त्वपर्याप्ताः पूर्वोक्तस्वरूपौदारिकमिश्रकाथयोगिनो भण्यन्ते, केवलमेतेऽपि तस्यामवस्थायां मिथ्यादृष्प्रिसास्वादनाविरता एव मन्तव्याः, यतः सम्यग्मिथ्यादृष्टित्वाभावे निरवशेषाऽनन्तरोक्तैव युक्तिरिहाप्यवतरति, देशविरतादीन्यपि गुणास्थानकान्यपर्याप्तावस्थायां न संभवन्ति, विरतिसद्भाव एव तद्भावाद्, अपर्याप्तस्य च विरतरंशतोऽप्यभावादिति । माह-ननु 'सव्वे अपजत्तया मीसा' इति सूत्रकृता प्रोक्तं, एतच्चायुक्तमिव लक्ष्यते, पर्याप्तस्यापि मनुष्यस्य सयोगिकेवलिनः समुद्घातावस्थायां द्वितीयषष्टसप्तमसमयेष्वौदारिकमित्रस्य सम्भवात, तथा नराणां तिरश्चां च पर्याप्तानां लब्धिमतां वैक्रियस्य आरम्मकाले पूर्वोक्तस्वरूपस्य वैक्रियमिः स्य लाभात, तथा पर्याप्तमनुष्याणामेव चतुर्दशपर्व
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy