________________
योगेषु गुणस्थान ।
निर्विशेषणमेवोकमतो मिथ्यादृष्ट्यादिविशेषणं कथमुपादीयते ? चेद, उच्यते, सामर्थ्यात, अन्यथा हि गुणास्थानलक्षणानां जीवसमासानां काययोगे चिन्तनीयत्वेन प्रकृते केवल- सुरनारकग्रहणमप्रस्तुतमेव स्यात, न च बक्तव्यं सूत्रकृतो नायमभिप्रायः, तेनापि मिथ्यादृष्ट्यादिविशेषणस्य तस्यध्यवसितत्वात, कथमिदमवसीक्ते ? इति चेद, उच्यते, उत्तरगाथायां कार्माणकाययोगचिन्तावसरे 'मिच्छासासणे' त्यादिगुणस्थानकोपन्यासात् प्रेक्षापूर्वकारित्वाञ्च, अन्यथा ह्यप्रस्तुतभणनेन तत्कारिता हीयेत, तस्मान्मिथ्यादृष्ट्यादिगुणस्थानकेष्वपि सुरादिविशेषणभूतेषु यदि योगचिन्ता क्रियेत तथाऽपि सामर्थ्यात्तद्विशेभ्यभूतेषु सुरादिवेवासौ कृता भवेद, विशेभ्यमन्तरेण निराश्रयस्य विशेषणस्यासम्भवाद्, अतो मिथ्यादृष्ट्यादिविशेषणानि प्रस्तुतान्यप्यप्रधानत्वाचे तसि निधाय विशेष्यत्वेन प्रधानेषु सुरनारकादिवेवेह सूत्रकारः काययोगचिन्तां चकार, एवं हि सति प्रत्येकमेवेकस्मिन्नपि जीवसमासे सुरनारकायाधारभेदताऽनेकधात्वं प्रतिपन्ने काययोगचिन्तायां विधीयमानायां विचारबाहुल्याच्छिन्वव्युत्पत्त्यादिसाध्यसिद्धिर्भवतीत्यलं विस्तरण, सुधिया त्वन्यथाऽप्यागमाविरोधतोऽत्र समाधानं वाच्यमिति । आह-ननु सुरनारकाणां वैक्रियवै क्रियमिश्रकार्मणाल क्षणास्त्रयः काययोगाः संभवन्ति तत्कथमत्र क एव वैकिपकाययोगो निर्दिष्टः ?, उच्यते शरीरपर्याप्त्या पर्याप्तावस्थाभाव्येवायमिह प्रोक्तः, तदपर्याप्तावस्थासंभवी तु बंकिंयमिश्रकाययोगाऽस्यामेव गाथायामुत्तरार्द्ध वक्ष्यते, विग्रहगत्यादिसंभवी तु कार्मणकाययोग उत्तरगाथायामित्यदोषः, एतच परिभाव्य नरादिविचारेऽपि वक्ष्यमाणे नोत्सुकता विधेया। 'नरतिरि ओरालिया सर्वउव्वि' ति मिथ्यादृष्टिसास्वादनमित्राविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तक्षीणमोहसयोगिकलिलक्षणा नराः मिथ्यादृष्टिसास्वादनमिश्राविरतदेशविरतस्वरूपास्तिर्यञ्चश्च प्रौदारिककाययोगिनो भवन्ति, तथैव सह वैक्रियेण वर्तन्त इति 'सवै क्रियाः' वैक्रियकाययोगवन्तो भवन्ति, इदमुक्तं भवति नरास्तिर्यञ्चश्च यथोक्तविशेषणविशिष्टा औदास्सिकाय
योगस्थाः प्राप्यन्ते, तथा तेऽपि नरतियचो वैक्रियकाययोगिनो लभ्यन्ते, केवलं नरा इह गर्भजा प्रमत्तान्ता एव च द्रष्टव्याः, संमूर्छजमनु-याणां सक्लिष्टत्वेन वैक्रिय- लब्ध्यभावात्सकलपर्याप्तिभिरपर्याप्तानामेव मरणाच, औदारिककायमात्र त्वमीषामपि संभवति, शरीरपर्याप्त्या पप्तानामेव पञ्चत्वगमनादिति, अप्रमतादयोऽपीह न गृलान्ते,
तेषामतिविशुद्धत्वेन वैक्रियलब्ध्युपजीवनाभावादिति, तिर्य-चोऽपीह गर्भजा मन्तव्याः, समर्छजानां वैक्रिपलब्ध्यभावादिति । 'आहारया पमत्त त्ति' मनुष्येषु चतुर्दश-
నుంచుంది నన్ను తనం నుంచి తనను కనుకున్నను
॥ ४३ ॥