SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ॥४२॥ युज्यते, तेषामेवाविशुद्धत्वात्, ये त्वप्रमत्तादयः क्षीणमोहान्तास्तेषामतीव विशुद्धबिशुद्धतरविशुद्धतमत्वात्कथमेतत्सम्भवोऽविशुद्धावेवासल्यतायाः सम्भवात् ?, सत्य, किन्त्वमीषां का ज्ञानावरणाा दयस्तावदद्याप्यस्त्येव, तस्मिंश्च सत्यनाभोगादयः संभवन्ति, तेषु चासत्यताऽवश्यम्भाविनी, अतः क्षीणम हेऽपि छमस्थेऽनाभोगतोऽसत्यता संभवति, किं पुनः शेषे ? स्थानकानि गा.५७ अतः प्रस्तुतयोगचतुष्टयसम्भव एतेषु न विरुध्यते, यत उक्तं "नहि नामानाभोगाच्छमस्थस्येह न भवति स्खलितम् । कर्मणि ज्ञानावरणे ज्ञानावरणस्वभावे हि।।१॥"सयोगिकेवलिनस्तु न ज्ञानावर णाधु दयस्तदभावे च नैवानाभोगादिसम्भवस्तदसंभवे च नास्यासत्यतासद्भावोऽत इहासौ न गृहीत इत्यलं विस्तरेण, ग्राह-ननु मिथ्यादृष्टिगुणस्थानके सक्षिपञ्चेन्द्रियस्यैवेह योगचिन्ता कृता, अथ च तद्वतिनां शादिद्वित्रिचतुरिन्द्रियासम्झिपञ्चेन्द्रियाणामपि वाग्योग: सभवति, स चास्यां गाथायामद्यापि न चिन्तित इत्याशङ्क्याह'संखाइ अतवउ' तिशड खादिद्वीन्द्रियाणां कर्णगाल्यादिनीन्द्रियाणां भूमरादिचतुरिन्द्रियाणां मत्स्याद्यसिझप चेन्द्रियाणां च मिथ्यादृशामन्त्या वाग्, असत्यामुषलक्षणा वाग भवतीत्यर्थः, अव्यक्तध्वनिमात्रत्यात तवाग न सत्यतया वक्तुं पार्यते नाप्यसत्यतया, तस्मादसत्यामषरूपैवेयमिति भावः, अपरस्त्वाह-ननु पूर्व नरकगत्यादिषु क्व कियन्ति कानि च गुणस्थानकानि लभ्यते ? इत्येवं गुणस्थानकलक्षणमार्गणाजीवसमासस्थानेषु चिन्तिता, अन तु वैपरीत्यं, गुणास्थानस्वरूपेषु जीवसमासेष्वेव योगचिन्ताया भवद्भिर्व्याख्यातत्वात्, सत्यं, किन्तु येषु यावत्सु गुणस्थान ल च यजीदरमासेषु ये यावन्तश्च योगाः प्राप्यन्ते तेषु तावत्सु योगेष्वपि ते तावन्तः गुणस्थानरूपा जीवसमासा अपि लभ्यन्त इति न कश्चिदर्थभेदः, केवलं सुखतरप्रसिद्धप्रतीत्युपायत्वमाश्रित्य क्वापि कथा-चद्वचनोक्तिः प्रवर्तते इत्येवमभिदे सत्यन्यत्राप्युक्तिभेदमाले ण न संमोहः । कार्य इति । अत्र च यो यस्य जीवस्य योग उक्तः स तस्य लब्धितः प्रथमसमयादेव द्रष्टव्यः, करणतस्तु स्वपर्याप्त्युत्तरकालमिति गाथार्थः ।। ५६ ॥ तदेवं चिन्तिता वाग्म. नोयोगयोगणस्थानलक्षणा जीवसमासाः, अथ काययोगतचिन्तयत्राह सुरनरया विउब्बी नर तिरि ओरालिया सवेउव्वी। आहारया पमत्ता सव्वेऽपज्जत्तया मीसा ॥ ५७॥ 'वेउव्वी ति वैक्रियशरीरवन्ता भवन्तीति तात्पर्य , के ? इत्याह-मिथ्यादृष्टिसास्वादनसम्बन्मिथ्यादृष्ट्यविरतसम्यग्दृष्टिसुरनारकाः, ननु सूत्र सुरनारका इति ॥४२॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy