SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ॥ ४१॥ गा.५६ दारिकेणेति गम्यते स ाहारकमिश्रः स चासौ कायस्तेन योग आहारकमित्रकाययोगः, यदा सिद्धप्रयोजनश्चतुर्दशपूर्वधर आहारकं परित्यज्य पुनरौदारिकोपादानाय प्रवर्तते तदौ मनोवाम्योगेषु दारिकेण मिश्रमाहारकं प्राप्यते, बहुव्यापारत्वेन प्रधानत्वादाहारकेणे व तदा व्यपदेश इति भावः, अन्ये त्वस्यापि प्रारम्भकाल एवाहारकमिश्रतां प्रतिपद्यन्ते, प्रारभ्यमाणत्वे गुणस्थानकानि Lal नाहारकस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति हृदयं ६, कार्मण-निरू पिततत्त्वं तदेव कायस्तेन योगः कार्मणकाययोगः, कार्मणमिश्रस्तु यथा न संभवति तथा निवे दितमेव, कार्मणकाययोगश्च केवलो विग्रहगतो केवलिनः समुद्घातगतस्य च तृतीयचतुर्थपञ्चमसमयेषु प्राप्यत इति भावनीयम्, इह च तैजसकाम॑णायारेकसद्भावे द्वितीयं भवत्येव एकस्याभावे द्वितीयमवश्यतया न भवत्येवेत्येवं सर्वदेव सहचरितत्वात् कार्मणग्रहणेनेव तेजसं गृहीतमित्यनया विवक्षया कार्मणकाययोगातजसकाययोगः पृथग HM नोक्त इति भावनीयमिति गाथार्थः ।। १६॥ तदेवं निर्दिष्टाः पञ्चदशयोगाः, इह च जीवसमासा गुणस्थानलक्षणा गत्यादिमार्गणस्थानेषु चिन्तनीया इति प्रस्तुतं, तदे-12 | तन्मनसि संप्रधारयन् गुणस्थानकानि यथोक्तयोगेषु चिन्तुयितुमाह सच्चे असच्चमोसे सण्णी उ सजोगिकेवली जाव। सपणी जा छउमत्थो सेसं संखाइ अंतवउ ॥५६॥ सत्योऽसत्यामृषश्च मनोयोगो वाग्योगश्च सज्ञिमिथ्यावृष्टिगुणस्थानादारभ्य यावत्सयोगिकेवलिगुणस्थानं तावत्प्राप्यते, इदमुक्त भवति-एकेन्द्रियाणां तावन्मनोयोगवाग्योगौ सर्वथैव न संभवतः, द्वित्रिचतुरिन्द्रियासज्ञिपञ्चेन्द्रियाणां तु वाग्योगः संभवति, केवलमसावस्यामेव गाथायामसत्यामृषतया वक्ष्यतेऽत इह पारिशेष्यात्स-िनमिथ्यादृष्टिगुणस्थानादारभ्येत्युक्तम्, अयोगिकेवलिनस्तु सर्वथा योगाभाव एवेति सयोगिकेवल्येव पर्यन्ते निर्दिष्ट इति, 'सण्णी जा छउमत्थो' 'सेस'ति भणितशेषम्, असत्यमनोयोगसत्यासत्यमनोयोगासत्यवाग्योगसत्यासत्यवाग्योगचतुष्टयं सम्झिमिथ्यादृष्टिगुणस्थानादेवारभ्य क्षीणमोहच्छमस्थगुणस्थानं यावतल भ्यते, इहाप्येकेन्द्रियद्वित्रि चतुरिन्द्रियासज्ञिपञ्चेन्द्रियाणामभृणने कारणं पूर्वोक्तमेव द्रष्टव्यम्, अपरं च प्रस्तुतयोगचतुष्टयं रागद्वेषाज्ञानानाभागवतामेव संभवति, ते च रागादयः सयोगिकेवलिनः FI सर्वथैवोच्छिन्ना इति सयोगिकेवलिनं परिहत्य क्षीणमोहच्छमस्थ एव पर्यन्ते निर्दिष्टः, नन्वेवमपि मिथ्यादृष्ट्यादिषु प्रमत्तान्तेष्वेव गुणस्थानकेषु प्रस्तुतयोगचतुष्टयस्य सम्भवो ॥४१॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy