SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ योगाः నను తను ఉన్న ప్రతి అను అక్షం నుంచి ఆ మరకలను కలుపుకుందామన్న రాదు కంచు वाग्योगश्चेत्यसत्यामृषवाम्योगः, विषयव्यवस्था सर्वत्र पूर्वोक्कैवेति ४ । इह तृतीतचतुर्थों मनोयोगौ वाग्योगौ च परिस्थरव्यवहारनयमतेनेव द्रष्टब्यौ, शुद्धनयानां तु मनोज्ञानं वचनं वा सर्वमदुष्टविवक्षापूर्वकं सत्यं प्रज्ञानादिदूषिताशयपूर्वकं त्वसत्यं, उभयानुभयरूपं तु नास्त्येव, सत्यासत्यराशिद्वयेऽन्तर्भावादिति भावनीयं । काययोगस्त्वौदारिकवैक्रियाहारकतन्मिअकार्मणकायभेदात्सप्तधा, तत्रौदारिकवैक्रियाहारकाण्यनन्तरमेव व्याख्यातानि, 'मिस्स'त्ति अयं मिश्रशब्दस्त्रिवपि शरारेषु प्रत्येकं संभत्स्यते, ततश्चौदारिकमेव कायस्तेन सहकारिणा योग औदारिककायविषयो वा योग औदारिककाययोग: १, मित्रशब्दसम्बन्धादौदारिकं मित्रं यत्र कामणेनेति गम्यते स भवत्यौदारिकमिश्रः, उत्पत्तिदेशे ह्यनन्तरागतो जीवः प्रथमसमये कामयेनैवाहारयति ततः परमौदारिकस्याप्यारम्भादौदारिकेण कार्मणमिश्रेणान्तर्मुहुर्तमाहारयति, उक्तञ्च नियुक्तिकृता-"जोएण कम्मएण आहारेई अणं तरं जीवो। तेण परं मीसेयं जाव सरीरस्स निष्फत्ती ॥ १॥" औदारिकमिश्रश्चासौ कायश्च तेन योग औदारिकमिश्रकाययोगः, मित्रताया उभयगतत्वेऽपि कार्मणमित्र इति न व्यपदिश्ते, | किन्त्यौदारिकस्य तदा प्रारभ्यमाणत्वेन बहुव्यापारत्वेन च प्रधानत्वात्तनैव व्यपदेश औदारिकमिश्र इति २, वैक्रियं पूर्वनिर्दिष्टस्वरूपं तदेव कायस्तेन योगो क्रियकाययोगः ३, वैक्रिय कार्मणेन मिश्रं यत्रासौ वैक्रियमिश्रा, अयं च देवनारकाणामपर्याप्तावस्थायां मन्तव्यः, अनापि कार्मणमित्रतानभिधाने कारण पूर्वोक्तमेव भावनीयं, अपरं च बादरपर्याप्तकवायोर्गर्भजपन्चेन्द्रियतिर्यग्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियं कृत्वा तत् परित्यज्य पुनरौदारिकं स्वीकुर्वतामौदारिकेणापि मिधं वैक्रियमवाप्यत इत्यमीषामपि वैक्रियमित्रसद्भावो ज्ञातव्यः, अथात्र पक्षे यथा बैंक्रियमौदारिकेण मिश्रमियतो वैक्रियमित्रमिति व्यपदिश्यते तथौदारिकमपि वैक्रियेण मि-मित्यौदारिकमिश्रमित्यपि कस्मानोच्यत ? इति चेत्, तद्युक्तं, यतो हन्त प्रधानेनेव व्यपदेशो भवति, वेक्रियपरित्यागकाले च बहुब्यापारत्वात्तदेव प्रधानमतस्तेनेव व्यपदेशः, अत एव हिवारवादीनां वैकियारम्भकाले वैक्रियमित्रताव्यपदेशो न भवति, औदारिके हि स्थिता अमी वैक्रियमारभन्ते, ततः प्रारम्भकत्वेन बहुव्यापारत्वादौदारिकमेव प्रधानमतस्तेनेव व्यपदेशो भवत्यौदारिकमित्रमिति, अन्ये तु वैक्रियारम्भa काल एव वाग्वादीनां वैक्रियमिश्रतां प्रतिपद्यन्ते, मारभ्यमाणत्वेन वैक्रियस्य प्राधान्यविवक्षया तेनैव व्यपदेशमिच्छन्तीति भावस्तदलमतिविस्तरेण, तदर्थिना तु प्रज्ञापनाटीक व निरीक्षणीया, वैक्रियमिश्रश्वासौ कायश्च तेन यागो वैक्रियमित्रकाययोगः ४, आहारकं पूर्वाभिहितसद्भाषं तदेव कायस्तेन योग माहारककाययोगः ५, आहारकं मित्रं यत्रौ ఆరు ల ఉన న న న న న న ॥४०॥ న
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy