________________
॥ ३६ ॥
वक्ष्यमाणसत्यासत्यवाग्योगविषयता मन्तव्या किं च दृष्टा अस्मिन् प्रदेशे त्वया कतिचिचौराः कुरङ्गा वा ? इत्यादिके केनचित्पृष्टे एते पुरत कथयामीत्याद्यपि विकल्पयतः प्रस्तुतमनोयोगो द्रष्टव्यः श्रयं हि विकल्पः परिस्थुरव्यवहारनयमतेन सत्यो निश्चयनयमतेन तु परपीडावहत्वेन पापानुबन्धित्वादसत्य इति सत्यासत्यमनोयोगता, एतस्मिन्नेव प्रश्ने एते पुरतस्तिष्टन्तीत्यादि वदतो वक्ष्यमाणसत्यासत्यवाग्योगविषयताऽपि भावनीया, इदं हि वचनं स्थूरव्यवहारतः सत्यं निश्चयतस्त्वसत्य यत उक्तम् — “प्रलियं न भासियव्वं अस्थि हु सब पि जं न दत्तव्वं । सच ेपि तं न सच्च जं परपीडाकरं वयणं || १|| "ति, न विद्यते सत्यं यत्र स भवत्यसत्यो न विद्यते मृषा यत्र स भवत्त्यमृषः असत्यश्चासावमृषचेति पूर्ववत्कर्मधारयः स चासौ मनोयोगस्य सत्यामृषामनोयोगः इह विप्रतिपत्तिविवक्षायां वस्तुप्रतिष्शसया प्रमाणाबाधितं सर्व्वज्ञमतानुसारेण यद्विकल्प्यते प्रोच्यते वा यथाऽस्ति जीवः सदसद्रूप इत्यादि तत्किल सत्यं परिभाषितमाराधकत्वात् यत्तु विप्रतिपत्तिविवत्तायामेव वस्तुप्रतिष्टासया प्रमाणवाधितं सर्वज्ञमतोत्तीर्ण किञ्चिद्विकल्प्यते प्रोच्यते वा यथा नास्ति जीव एकान्तनित्यो बेत्यादि तदसत्यमिति परिकीर्तितं विराधकत्वात् यत्तु प्रमाणबाधितावाधितत्वं तत्पूर्वे ] कमशो का नादिकं सत्यासत्यं, विराधकाविराधकत्वादिति, यत्पुनर्विप्रतिपत्तिमन्तरेणैव वस्तुप्रतिष्ठासां दिना स्वरूपमः प्रतिपादनपरं व्यवहार पतितं विचिद्विकल्प्यते प्रोच्यते वा यथा हे देवदत्त ! घटमानय गां: देहि मह्यमित्यादि, तदेतत् स्वरूपमात्रप्रतिपादनपरं व्यावहारिक विकल्पज्ञानं दचनं वा न सत्यं नापि मृषा किन्त्वसत्यामृषमित्यागमे परिभाषितमनाराधकत्वादविराधकत्वाच्च त्यतो हे देवदतेत्यादिविकल्पोऽसत्यामृषमनोयोग इत्युच्यते, हे देवदत्त ! इत्यादिवचनं त्वसत्यामुषवाग्योग इति ४ । तदेवं मनोयोगचतुर्द्धा व्याख्यातस्तद्व्याख्याने च वाग्योगोऽपि चतुर्विधो व्याख्यात एव द्रष्टव्यः, प्रायो मनोविकल्पितस्यैव वाग्विषयत्वात्तथाऽपि स्थानाशून्यार्थ किञ्चिद्व्याख्यायते - सतां हिता सत्या सा चासौ वाक् चेति सत्यवाक् तया सहकारिकारणभूतया योगः सत्यवाग्योगः, अथवा पूर्वोक्तनीत्या वचनगतं सत्यत्ययोगेऽप्युपचर्यते, ततः सत्यश्चासौ वाग्योगश्चेति सत्यवाग्योग इत्यपि मन्तव्यं, शेषमिहोत्तरल च सत्यमनोयोगादिवद्वतव्यं १ सत्याद्विपरीताऽसत्या सा चासौ वाकू पेलवाकू तथा योगोऽसत्यवाग्योगः २, सत्या चासावसत्या च सत्यासत्या सा चासौ वाक् चेति सत्यासत्यवाक् तया योगः सत्यासत्यवाग्योगः ३, न विद्यते सत्यं यत्र सोऽस्त्यो न विद्यते मृषा दल सोऽमृषः अस्त्यश्चासावमृषचेति असत्यामुषः स चासौ
योगाः १५ गा. ५५
॥ ३६ ॥