________________
| देवादीनां शरीराणि गा ५४
ब्वियसमुग्घाएण समोहणई' त्यादि, एवम्भूतया :विक्रियया निष्पद्यमानत्वाद्वै क्रियमिदमुच्यते अस्वाभाविकमितियावत् , नन्वनया व्युत्पत्योत्तरवैक्रियसङ ग्रह एव स्यान्न सहजव क्रियस्य, तस्य समुद्घातादिक्रियामन्तरेणेव जायमानत्वात, सत्यं, किन्तूत्तरवैक्रियसमानजातोयपुद्गलैर्निष्पद्यमानत्वाद्वै क्रियमिव वैक्रियमित्युपचारतस्तदपि वैक्रियमुच्यते, अथवौदारिकाद्यपेक्षया विशिष्ठा-विलक्षणा क्रिया विक्रिया तस्या भवं वैक्रियमित्येवं तदपि संगृह्यते, "पाणिदयरिद्विसंदरिसणत्थमस्थोवगहणहेउं वा। संसयवोच्छेयत्थं गमण जिणपायमूलमि ॥ १॥ इत्येवंभूतकार्योत्पत्तौ चतुर्दशपूर्वविदा आह्रियते गृह्यत इत्याहारकं अथवाऽऽह्रियन्ते सूक्ष्मा जीवादयः पदार्थाः केवलिसमीपेऽनेनेत्याहारकं ३
आहारपाककारणभूतास्तेजोनिसर्गहेतवश्चोष्णाः पुद्गलास्तेज इत्युच्यते तेनेत्थम्भूतेन तेजसा निवृत्तं तैजसं, मौष्मादिलिङ्गगम्यं ४ कर्मणा निवृत्त कार्माणमष्ठकर्मसमुदायस्पमि
त्यर्थः । तदेवमेतानि पञ्च शरीराणि सामान्येन सर्वजीवानां भवन्ति, विशेषतोऽपि चिन्त्यमानानि 'पंच मणुएसु' त्ति नानाजीवानाश्रित्य मनुष्येषु पञ्चाप्यमूनि लभ्यन्त TAIL इत्यर्थः, वायूनां गर्भजपञ्चेन्द्रियतिरश्चां चत्वारि शरीराण्यौदारिकवैक्रियतैजसकार्मणलक्षणानि प्राप्यन्ते, आहारकं तु न लभ्यते, तस्य चतुर्दशपूर्वविद एव सम्भवादिति गाथार्थः ॥ ५३ ॥ देवादीनां शरीरसङ्ख्यामाह-'वेउव्वी'त्यादि,
वेउन्वियतेए कम्मए य सुरनारया य तिसरीरा। सेसेगिंदियवियला ओरालियतेयकम्मइगा ॥५४॥ सुरनारकाः पुनस्त्रीणि शरीराणि येषां ते त्रिशरीरा भवन्ति, कानि पुनस्त्रीगि शरीराणि तेषां भवन्ति ? इत्याह-वैक्रियं जसं कार्मणं चेति, औदारिक त्वमीषां न भवति, तस्य तिर्यग्गनुष्येष्वेव सम्भवात्, आहारकमपि न संभवति, तस्य मनुष्यचतुर्दशपूर्वधरेष्वेव भावादिति, भणितशेषाः पुनरेकेन्द्रियाः पृथिव्यप्त जोवनस्पतिलक्षणाः तथा सम्पुर्णन्द्रियमनोवैकल्याद्विकलाः-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासज्ञिपञ्चेन्द्रियस्वरूपा औदारिकतैजसकार्मणशरीरवन्त एव भवन्ति, वैक्रियं तु भवप्रत्ययिक तावदमीषां न भवति, तस्य सुरनारकेष्वेव सम्भवाद, उत्तरवैक्रियमपि न प्राप्यते एषां तल्लब्ध्यभावात्, आहारकाभावे तु पूर्वोक्तमेव कारणं भावनीयमिति गाथार्थः ॥ १४ ॥ तदेवमभिहित सप्रसङ्गं कायद्वारमथ क्रमप्राप्त योगद्वारमभिधित्सुरांह