SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३५॥ नरतिरियाण छप्पिय हवइ हु विगलिंदियाण छेवढ। सुरनेरझ्या एगिदिया य सब्वे असंघयणी ॥५०॥ संहननस्वामिनः . इह विकलेन्द्रिय केन्द्रियाणां पृथगैवोपादानात्पारिशेप्यादेव तिर्यफूशब्दः पञ्चेन्दियतिर्यवेव वर्तते, ततश्च नराणां पञ्चन्दियतिरश्चां च कस्यचित्किल्पि- संस्थानानि गा. दिति सामान्येन षडपि संहननानि यथोक्तस्वरूपाणि प्राप्यन्ते, विकातेन्द्रियाणां त्वेकमेव वेदवत्तं लभ्यते, न शेषाणि, मुरनारका एकेन्द्रियाश्च सर्वे 'असंहननिनः' संहननरहिताः, | संहननस्यास्थिसञ्चयरूपत्यादेतेषां चास्थ्यभावादिति भाव इति गाथार्थः ॥ ५० ॥ एतानि च संहननानि सामान्यतः संस्थानाव्यभिचारीगयेव, संस्थानाभावे संहननस्य सर्वथैवाभावादतः संस्थानप्रतिपादनार्थमाह समचउरसा नागोह साइ खुजा य वामणा डुडा। पंचिंदियतिरियनरा सुरा समा सेसया हुंडा ।। ५१ ॥ शरीराकृतिरवयवरचनात्मिका संस्थानमुच्यते, तदपि समचतुरस्त्रादिभेदात्योढा, तत्र समाः-शरीरविषयलक्षणप्रमाणाविसंवादिन्यश्चतुर्दिविभागोपलक्षिताः शरीरावयवरूपाश्चतस्रोऽश्रयो यत्र समासान्तविधिनात्प्रत्ययात्समचतुरन'-सामुद्रिकशास्त्रादिप्रतिपादितसमवलक्षणपरिपूर्ण प्रथमं संस्थानं तद्योगाजीवा अपि समचतुरस्राः, 'नागोह' ति । इहैकदेशेन समुदायस्य गम्यमानत्वान्न्यग्रोधपरिमगडला इति दृष्टव्यं, तत्र न्यग्रोधो-वृक्षविशेषस्तत्परिमंडलं न्यग्रोधपरिमंडलं, यथा न्यग्रोध उपरि रमणीयः-सम्पूर्णावयवोऽधस्तने तु न तथा तद्वन्नाभेरुपरि बिस्तरबहुलं-शरीरलक्षणयुक्तमधस्तु हीनाधिकप्रमाणान्वितं यत्संस्थानं तन्न्यग्रोधपरिमण्डल' तयोगाजीवा अपि न्यग्रोधपरिमगडलाः २ 'सादि'त्ति आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते तेनादिना-शरीरलक्षणभाजा सह वतते यक्तत्सादि, सर्वमेव हि शरीरमविशिष्ट नादिना सह वर्तत एवेति विशेषणान्यथाऽनुपपत्तेरादेरिह विशिष्टता लभ्यते, सादिसंस्थानयोगाजीवा अपि सादयः ३ 'खुज्जा य' त्ति कुब्जाश्चेत्यर्थः, यत्र पाणिपादशिरोग्रीवं शरीरलक्षणप्रमाणयुक्त कोष्टं तु शेषकायलक्षणं हीनाधिकप्रमाणं तत्कुम्जसंस्थानं तद्योगाजीवा अपि कुब्जाः ४ यत्र पाणिपादशिरोग्रीवं लक्षणविसंवादि शेषस्तु पृष्टोदरादिरूपः कोष्ठो लक्षणयुक्तस्तद्वामनं संस्थानं तद्योगाजीवा अपि वामनाः ५ यत्र पुनः प्रायेण कोऽप्यवयवः शरीरलक्षणं न संवदति तत्सर्वत्रासंस्थितं हुण्डसंस्थानमुच्यते तद्योगाज्जीवा अपि हुण्डाः ।। के पुनस्ते : ||॥३५
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy