________________
संहननाधिकार
| पृथिव्यबवायुवनस्पतिविकलेन्द्रियरुमूर्छजप चेन्द्रियाणां विविधाऽपि योनिः संभवति, शीतस्पर्शपरिणतक्षेत्रोत्पन्नानां शीता उष्णस्पर्शप्रदेशजातानां तूष्णा शीतोष्णस्पर्शा- 1 न्वितस्थानसम्भूतातां पुनः शीतोष्णा योनिरिति भाव इति गाथार्थः ॥ ४७॥ यथोक्तयोनिसमुत्पन्नाश्च जीवा यथासम्भवं षट्सु संहननेषु वर्तन्तेऽतः संहननस्वरूपनिरूपणार्थमेवाह
___ बजरिसह नारायं वजनाराययं च नारायं। अद्ध चिय नारायं खीलिय छेवट्ट संघयण ॥४८॥
संहतिः संहननं-अस्थूनां परस्पर सम्बन्धप्रापणमिति भावः, तचास्थिसम्बन्धस्यैव वैचित्र्यमाश्रित्य षोढा भिद्यते, तत्र वज्रशब्देनेह कोलिका प्रोच्यते, ऋषभस्तु 50 संहतास्थिद्वयस्येवोपरि वलयाकारः परिवेष्टनपट्टः, विवक्षितास्थनारेवाधरोत्तरेण सञ्चयापन्नयोरुभयतो मर्कटबन्धो नाराचः, ततश्चेदमुक्तं भवति-द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन
बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थितयभेदि कीलिकाकारं वज्रनामकमस्थि यत्र भवति तद्ववर्षभनाराचं प्रथमसंहननं, वज्रर्षभाभ्यामुपलक्षितो-नियन्त्रितो नाराचोऽस्मिन्नितिकृत्या १ 'बज नाराययं चेति यत्र तु अषभो नास्ति शेष तु विद्यते तद्वज्रनाराचं द्वितीयमिति, वारहितमृषभनाराचं द्वितीयमित्यन्ये २ वर्षभवर्ज नाराचं तृतीयं ३ 'अद्ध चिय नाराय' ति चतुर्थ चार्द्धनाराचं दिवतीयमियन्ये, यदेकतो मर्कटबन्धं दिवतीयपारचे तु कीलिकाविद्धं तदर्द्धनाराचमिति हृदयम् ४ अषभनाराचवर्ज कीलिकाविद्धास्थिद्वयसम्-चरमात्रं तु कोलिकाख्यं पञ्चमं । छेवट्ठति दकारस्यानुस्वारस्य च लुपस्येह दर्शनाच्छेदैः-पर्यन्तैरेवास्थनां वृत्त-परस्परसम्बन्धघटनालक्षण वतनं वृत्तियत्र तच्छेदवृत्त, कीलिकापट्टमर्कटबन्धरहितमस्थिपर्यन्तमावस्पर्शि छेदवृत्ताभिधानं षष्ठं संहननमित्यर्थः, सेवातमिदमित्यन्ये, अस्थिव्यपर्यन्तसम्पर्शलक्षणां सेवामृत गतमिति सेवार्तमिति कृत्वेतिगाथार्थः ॥ ४८ ॥ ऋषभवज्रनाराचशब्दान् स्वयमेव व्याचिख्यासुराह
रिसहो य होइ पट्टो वज्ज पुण कोलिया वियाणाहि। उभभो मकडबंधं नारायं तं वियाणाहि ॥ ४६ ।। गतार्थ व ।। ४६ ॥ एतानि च संहननानि येषां जीवानां यावन्ति भवन्ति येषां च सर्वथा न भवन्ति तदेतद्दर्शयन्नाह
॥ ३४॥