________________
२७॥
व स गुम्जावातः, 'मह' त्ति वृक्षादीन् भ-जन् यो वाति स महावात इत्यर्थः, घनवाततनुवातौ तु धनोदध्याद्याधारभूतो प्रतीतावेव, वातशब्दश्च हे प्रक्रमलब्धः सर्वत्र योजितः, l
वनस्पतिभेदाः संवर्तकादयोऽपि भेदा अन्यत्र पठिता दृश्यन्ते तेषामिहादावुपात्तवातशब्देन सहमहो द्रष्टव्यः, तत्र यो बहिः स्थितमपि तृणादिकं संर्त्य-क्रोडीकृत्य विवक्षितक्षेत्रान्तः क्षिपति गा. ३४-५ स संवत कवातः, वर्यादीत्यादि पूर्ववदिति गाथार्थः ।। ३३ ।। बादरवनस्पतिभेदानाह
मूलांगपोरबीया कंदा तह खंधवीय बीयरहा। समुच्छिमा य भणिया पत्तेय अणंतकाया य ॥ ३४॥ , मूलं बीजं येषां ते मूलबीजाः-उत्पलकन्दकदल्यादयः, अग्र बीजं येषां ते अवीजाः-कोरगटकनागवल्ल्यादयः, पर्व बीजं येषां ते पर्वबीजा-इक्ष्वादयः 'कंदति अत्रापि बीजशब्दः संबध्यते, कन्दो बीजं येषां ते कन्दबीजा:-सुरणादयः, 'खंधबीय' त्ति स्कन्धो बीजं येषां ते स्कन्धबीजाः-शल्लकीपारिभद्रादयः 'बीजरुह' ति बीजादोहन्तीति बीजरुहाः-शालिमुद्रादयः, संमूर्च्छन्ति-तथाविधप्रसिद्धबीजाभावेनैव दग्धभूम्यादावपि संभवन्तीति संमूर्छिमाः-तृणादयः, के पुनर्वनस्पतयो मूलबीजादिभेदेन प्रतिपत्तव्याः । इत्याह- 'पत्तेय' ति एकमेकं प्रति प्रत्येक-एकैकशो विभिन्नं शरीरं तद्योगाजीवा अपि वनस्पतयो मुद्गादयोऽत्र प्रत्येकाः प्रोक्ताः, एषां हि यदेकस्य शरीर न तदन्यस्य, अभेदप्रतिभासस्तु शरीराणां सर्षपवर्त्या सर्षपाणामिव तथापरिणतः, उक्तम्च-"जह रुगलसरिसवाणं सिलेसमिस्साण वत्तिया वती। पत्तेयसरीराणं तह हुति सरीरसंघाया ॥ १॥ जह वा तिलसक्क लिया बहुएहिं तिलहिं मेलिया संती। पत्तेयसरीराणं तह हुति सरीरसंघारा ।। २ ॥” अनन्तानां जीवानामे कः कायः—शरीरं येषु वनस्पतिषु ते नन्तकायाः, एते प्रत्येका अनन्तकायाश्च वनस्पतयो मूलबीजादिभेदभिन्नाः संभवन्त्येवेति गाथार्थः ।। ३४ ॥ अथ कन्दादिप्राधान्येन वनस्पतिभेदानाह
कंदा मूला छल्ली कट्ठा पत्ता पवाल पुप्फ फला। गुच्छा गुम्मा वल्ली तणाणि तह पव्वया चेव ॥ ३५॥
इह कन्दप्रधाना वनस्पतयः कन्दशब्देन विवक्षिताः, ते च सूरणादयस्तेषां हि कन्दा एव बहुजीवाः, त एव च लोके बहुपकारिणस्तद्विनाशे च सर्वस्य तत्संबद्धवन|स्पतेविनाशः, एवमनया दिशाऽन्यत्रापि यदल संभवति तत्तत्र प्राधान्यकारणमभ्यूह्य, ततश्च मूलप्रधाना एरगडादयः छल्ली त्वक् तत्प्रधानाः कदल्यादयः काष्ठं-त्वगभ्यन्तरवर्ति