SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ॥ २३ ॥ 000000 सूक्ष्मापर्याप्त केन्द्रियादयो दशापि जीवभेदा मिध्यादृष्टय एव, तथाविधविशुद्ध्यभावतः शेषगुणस्थानानां तेष्वसम्भवादित्यतः ग्रह-ननु करणापर्याप्तषु बादरपृथिव्यबू वनस्पतिकरुणापर्याप्तद्वीन्द्रियलीन्द्रियचतुरिन्द्रियेषु च सास्वादनसम्यग्दृष्टिः प्राप्यते स कस्मान्नोक्तः १, सत्यं, किन्तु स्वल्पकालभावित्वान्न तस्येह गणना कृता, यदिवाऽनन्तानुवन्ध्युदयकलुषितत्वात् प्रत्यासन्नीकृतमिथ्यात्वोदयत्वाच्च मिथ्यादृष्टित्वेनैवायमिह विवक्षित इत्यदोष इति गाथाद्वयार्थः ।। २४ ।। ग्राह नन्वव सार्द्धगाथया सूक्ष्मबादरे केन्द्रियद्वित्रिचतुरिन्द्रियसज्ज्ञयसन्ज्ञिपञ्चेन्द्रियलक्षणाः सप्तापि जीवभेदाः पर्याप्तापर्याप्तविशेषणाभ्यां विशेषिताश्चतुर्दशविधत्वेनोक्ताः तत्कास्ताः पर्याप्तयो यद्योगात्पर्याप्त। भवति यद्वैकल्यापर्याप्तत्वमासादयन्तीत्याशक्य प्रसङ गतः पर्याप्तिस्वरूपनिरूपणाद्यर्थमाह आहारसरी रिंदियपज्जत्ती आणपाण भासमणे । चत्तारि पंचछप्पिय एगिंदियविगलसणी ॥ २५ ॥ इहाहारादिपुद्गलग्रहणपरिणमनहेतुः शक्तिविशेषः पर्याप्तिः, सा च साध्यभेदात्षोढा, तथथान्ययाऽऽहारपुद्गलानादाय खलरसरूपतया परिणमयति साऽऽहार| पर्याप्तिः १; यया तु रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्ररूपसतधातुतया परिणमयति सा शरीरपर्याप्तिः २, यया तु धातुभूतमाहरमिन्द्रियतया परिणमयति सेन्द्रियपर्याप्तिः ३, यया त्वानोपानवर्गणाद्रव्यमादायानापानत्वेन परिणमय्य मुञ्चति साssनापानपर्याप्तिः ४, यया पुनर्भाषा वर्गणाद्रव्यमादाय भाषारूपतया परिणमय्य मुञ्चति सा भाषापर्याप्तिः ५, यया तु मनःप्रायोग्यवर्गणाद्रव्यमादाय मनस्त्वेन परिणमय्य मुञ्चति सा मनःपर्याप्तिः ६, तदेवं गाथापूर्वार्द्धमध्योपात्तपर्याप्तिशब्दस्य सर्वत्र योजनात् षट् पर्याप्तयोऽवगन्तव्याः । ग्रह-किं सर्वेषामपि जीवानां सर्वा अप्येताः पर्याप्तयः प्राप्यन्ते ! नेत्याह चत्तारि ' इत्यादि, इह यथासङ्ख्येन सम्बन्धः, तद्यथा-आधातत्र एवै केन्द्रियाणांः, भाषामनसोस्तेष्वभावात, विकलशब्देन चात्र मनोविकला गृह्यन्ते, ते च पारिशेष्यात् द्वितिचतुरिन्द्रिया असन्पिञ्चेन्द्रियाश्च लभ्यन्ते तेषामाद्याः पञ्चैव पर्याप्तयो, न तु मनःपर्याप्तिर्मनसस्तेष्वभावादिति, सञ्ज्ञिपञ्चेन्द्रियाणां पुनः षडपि पर्याप्तयःः प्राप्यन्ते, मनसोऽपि तेषां सद्भावादिति गाथार्थः ॥ २५ ॥ उक्तं सप्रसङ्गमिन्द्रियद्वारमथ कायद्वारमाह पर्याप्तयः गा. २५ ॥ २३ ॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy