SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॥२२॥ त्याख्यानावरणकषायक्षयोपशमसम्भवेन देशविरतेरपि :लाभादिति भाव;, प्रमत्तसंयतादीनि तु गुणस्थानानि तेषु न लभ्यन्ते, अवश्यं प्रत्याख्यानावरणकषायोदयस्य सद्भावात्, तदुदये । एकन्दियाच सर्वविरतेरभावादिति, मनुष्यगतौ पुनश्चतुर्दशापि जीवसमासाः प्राप्यन्ते, तस्यां सर्वस्यापि मोहनीयादेरुदयक्षयोपशमादिसम्भवादिति, सामान्यचिन्ता चेयमतो विशेषचिन्ताया दिषु जीवस. गा २३-४ मपि किञ्चिदिग्मातमभिधीयते-'मिच्छद्दिट्ठी'त्यादि, ये लब्धितोऽपर्याप्ता मनुष्यास्तियञ्चश्व ते सर्वेऽपि मिथ्यादृष्टय एष, सङ क्लिष्टत्वेन शेषगुग्णानां तत्रासम्भवादिति, एवं कर्माकम्मभूमिजादिभेदेन विशेषविचारणायामपरेऽपि ये विशेषास्ते स्वयमभ्यूह्या इति गाथार्थः ॥ २२ ॥ अवसितं गतिद्वारमथेन्द्रियद्वारं निरूप्यते, इन्द्रियाणि च निराश्रयाणि | न संभवन्ति, माश्रयाश्च तेषामेकेन्द्रियादिजीवा अतस्तद्द्वारेण तद् विभणिपुराह एगिंदिया य वायरसुहुमा पजत्तया अपजत्ता। बियतियचउरिदियदुविहभेय पजत्त इयरे य ॥ २३ ॥ पंचिंदिया असण्णी सण्णी पजत्तया अपजत्ता। पंचिदिएसु चोइस मिच्छद्दिट्ठी भवे सेसा ॥ २४ ॥ एकेन्द्रिया द्विविधाः, चशब्दस्य भिन्नक्रमत्वाद्बादराः सूक्ष्माश्च, बादरनामकर्मोदयाद्वादराः-सूक्ष्मनामकर्मोदयाच्च सूक्ष्मा इति, तेऽपि प्रत्येकं द्विविधाः पर्याप्तका अपर्याप्तकाश्च, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिया अपि प्रत्येकं विभेदाः पर्याप्तका इतरे च-अपर्याप्तकाः, पञ्चेन्द्रिया अप्यसज्ञिसन्निभेदाद् द्विविधाः, संमूर्छजा गर्भजाश्चेत्यर्थ, तेऽपि प्रत्येकं द्विभेदाः-पर्या| प्तका इतरे वा-अपया प्तकाश्चेति, तदनेन "एगिदियसुहुमियरा सगिगायरपणिंदिया य सबितिचऊ । पञ्जत्तापज्जता भेएवं चउदसग्गामा॥१॥” इति स्थानान्तरे यश्चतुर्दशधा भूतप्रामः प्रोक्त स इहेन्द्रियाणामाश्रयत्वेनोको विज्ञ यः । तदित्थमिन्द्रियभणनप्रक्रमेण तदाश्रयभूतान् चतुर्दशविधानेकेन्द्रियादिजीवानभिधाय साम्प्रतं तेष्वेव ये यत्र यावन्तो जीवसमासाः संभवन्ति तान् तत्र तावतो दर्शयन्नाह-'पंचिंदिपसु' इत्यादि, पञ्च इन्द्रियाणि येषां ते पञ्चेन्द्रियाः पर्याप्तापर्याप्तस झयसम्झिपञ्चेन्द्रियरूपास्तेषु मिथ्यादृष्ट्यादिगुणस्थानरूपाश्चतुर्द| शापि जीवसमासाः प्राप्यन्ते, पञ्चेन्द्रिया हि सामान्येन नारकादयो मनुष्याचोच्यन्ते, तेषु च मिलितेषु यथोक्कानि चतुर्दशापि गुणस्थानानि लभ्यन्त एवेति भावः, शेषाः पुनः
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy