________________
जीवसमासे हैमीवृत्ती अंतरद्वार
॥२७५॥
ASSISASTEISA
तदेवं जघन्यमुत्कृष्टं चान्तरमुक्तं जविसमासगुणानां, साम्प्रतं-तेषामेव लोके यथासम्भवं कदाचिदभावलक्षणमन्तरं निरूपयितुमाह
गुणस्थाना पल्लाऽसंखियभाग सासणमिस्सासमत्तमणुएसु । वासपुहुत्तं उवसामएसु खवगेसु छम्मासा ।। २५९ ॥ नाम भाव
काल: _ 'सासणे'त्यादि सास्वादनश्च मिश्रश्वासमाप्तमनुष्यश्च ते तथा, तत्र सास्वादनमिश्री प्रतीतो, असमाप्तमनुष्यस्तु यो लब्धितः करणतश्च सदैवासमाप्तः-अपर्याप्त एव मनुष्यो भवति स इह विवक्षितः, स चैवंविधः सम्मूर्छजमनुष्य एव भवति, गर्भजमनुष्याणां पर्याप्तानामपर्याप्तानां च भावात् , ततश्च सास्वादनमिश्रासमाप्तमनुष्येषु पल्योपमासंख्येयभागरूपमन्तरं भवति, इदमत्र हृदयम्-एते त्रयोऽपि राशयः सर्वस्मिन्नपि लोके कदाचित् पल्योपमासंख्येयभागं यावन्न भवन्त्यपीति, मोहनीयं कर्मोपशमय|न्तीत्युपशमका:-उपशमश्रेणिवर्तिनः संयताः तेष्वपि वर्षपृथक्त्वप्रमाणमन्तरं समवसेयं, कदाचिद्वषपृथक्त्वं यावल्लोके उपशमश्रेणि
न कोऽपि प्रतिपद्यत इत्यर्थः, मोहनीयं कर्म क्षपयन्तीति क्षपका:-क्षपकश्रेणिवर्तिनश्चारित्रिण एव, तेषु पुनः षण्मासमानमन्तरं विज्ञा| तव्यं, कदाचिदुत्कृष्टतः षण्मासान् यावल्लोके क्षपकश्रेणिं कोऽपि न करोतीति भावः, परतस्तु करोत्यव कश्चित्तामिति, इह चोपशमकक्षपकग्रहणेनापूर्वकरणानिवृत्तिवादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहानामुत्कृष्टमन्तरमुक्तम् , अयोगिकवलिनां तु षण्मासमानमुत्कृष्टमन्तरं स्वयमेवावसेयं, मिथ्यादृष्टयविरतप्रमत्ताप्रमत्तसयोगिकेवलिनां तु विरहकालो न सम्भवत्येव, एतेषां लोकेऽविरहितं , सर्वदैव भावाद् , एवं च गुणस्थानलक्षणानां जीवसमासानामुक्तं यथासम्भवं लोके विरहकालस्वरूपमुत्कृष्टमन्तरं, सम्मूछेजमनु
॥२७५॥ प्याणामपि गुणस्थानेषु अप्रस्तुतानामपि पल्योपमासङ्खयभागलक्षणविरहकालाभिधानप्रस्तावाल्लाघवार्थमभिहितमुत्कृष्टमन्तरं,
मलप्रमाणमन्तर नारित्रिण करोत्येव काबीलनां तु पाकविरहित ।
ASKAR