________________
जीवसमासेठा जघन्यं तु सर्वेषां समयप्रमाणमेवान्तरं, तच्चाग्रेतनगाथायां स्वयमेवाभिधास्यतीति गाथार्थः ॥ २५९ ॥ अथ गुणानां विरहकाला-15 योगानों हैमीवृत्ती.
दविरहकाल: माभिधानप्रक्रमाद्योगादिगुणानामपि यथासम्भवं विरहकालमभिधित्सुराह
___ आहारमिस्सजोगे वासपुहत्तं विउविमिस्सेसु । बारस हंति मुहत्ता सब्वेसु जहण्णओ समओ ॥ २६ ॥ ॥२७६॥
____ आहारकं मिश्रं यत्रौदारिकेणासौ आहारकमिश्री योगः, चतुर्दशपूर्वधरेण प्रयोजनोत्पत्ती प्रारब्धमपरिपूर्णावस्थमाहारकशरीरमित्यर्थः, तस्योत्कृष्टं वर्षपृथक्त्वमन्तरं जायते, उत्कर्षतो वर्षपृथक्त्वं यावदाहारकशरीरस्य प्रारम्भकः कोऽपि लोके न प्राप्यत इति | भावः, 'आहारमाई लोए छम्मासं जा न हॉति उ कयाई'त्यादि प्रज्ञापनावचनाद् आहारकमिश्रस्य षण्मासप्रमाणमेवान्तरं प्रामोतीति, अत्र तु वर्षपृथक्त्वमुक्त, तदत्र तत्त्वं सर्ववेदिन एव विदन्तीति, वैक्रियाणि मिश्राणि कार्मणैः सह येषु ते वैक्रियमिश्रा योगाः, नारकदेवानामुत्पत्तिसमयभावीन्यसम्पूर्णावस्थानि वैक्रियशरीराणीत्यर्थः, तेषत्कृष्टतो द्वादश मुहूर्त्ता विरहकालः, नरकदेवगत्योर्हि उत्कृष्टतो द्वादश मुहूर्ता उत्पादविरहकालः प्रागुक्तः, ततः सामर्थ्यादेव वैक्रियमिश्राण्यप्येतावन्तं कालं न भवन्ति, उत्पद्यमानानामेव नारकदेवानां तत्सम्भवात्, लब्धिप्रत्ययतियङ्मनुष्यवैक्रियमिश्राणां विहाविवक्षितत्वादिति, शेषाणां त्वौदारिकौदारिकमिश्रवैक्रियकार्मणलक्षणानां काययोगानां मनोवाग्योगानां चान्तरमेव नास्ति, तेषां लोकेऽविरहितं सर्वदेव भावादिति ।
॥२७६॥ | आहारकमिश्राणां त्वन्तरे प्रोक्त आहारकाणामपि तत् प्रोक्तमेव, आहारकमिश्रस्य सम्पूर्णस्य चान्तर्मुहर्तात् परतोऽवस्थानाभावादिति । तदेवं प्राक्तनगाथायां प्रस्तुतगाथायां च निर्दिष्टं सास्वादनादीनामुत्कृष्टमन्तरं, साम्प्रतं सर्वेषामपि जघन्यं तदाह-सर्वेषु-सास्वाद