________________
| देवानामत्पादोद्वर्त्तनयोरन्तरम्
जीवसमासे ति सनत्कुमारकल्पे तिर्यङ्मनुष्यगतिकानां जीवानां जघन्यतः समय उत्कृष्टतस्तु नव दिनानि विंशतिर्मुहूर्त्ता उत्पादस्य विरहहैमीवृत्ती.
कालः, एवं जघन्यतः सर्वत्र समय एव, उत्कृष्टस्त्वन्तरकाल उच्यते, माहेन्द्रे कल्पे द्वादश दिनानि दश मुहूर्त्ता उत्कर्षेणोत्पादस्याअंतरद्वार
न्तरकालः, 'अद्ध तह बावीस ' ति ब्रह्मलोके सार्दानि द्वाविंशतिर्दिनानि, लान्तके पञ्चचत्वारिंशद्दिनानि महाशुक्र अशीतिम र्दिनानि सहस्रारे तु दिनशतं, 'संखेजमासे' त्यादीनां 'दुसुदुसु' इत्यादिभिः सह यथासङ्खयेन सम्बन्धः, ततश्चानतप्राणतयोः
संख्येया मासा वर्षादागेव उत्कर्षेणोत्पादस्यान्तरं भवति, आरणाच्युतकल्पद्वये तु संख्येयानि वर्षाणि शतादागेव, अधस्तनौवे& यकप्रस्तटत्रये पुनः संख्येयानि वर्षशतानि, सहस्रादागेव, मध्यमग्रैवेयकप्रस्तटत्रये तु संख्येयानि वर्षसहस्राणि, लक्षादागेव, | उपारितनौवेयकप्रस्तटत्रये तु संख्येयानि वर्षलक्षाण्युत्कृष्टत उत्पादस्यान्तरं भवति, पंचसु अणुत्तरे' इत्यादि पश्चस्वनुत्तरविमानेषु मनुष्यगतरुत्पद्यमानानां जन्तूनामुत्पादस्य जघन्यतः समय उत्कृष्टतस्तु पल्योपमासंख्येयभागोऽन्तरं भवति, एवमिहानुतरविमानेषु पञ्चस्वपि सामान्येनैकस्वरूपमेवान्तरमुक्तं, सिद्धान्ते तु विशेषेणेत्थमभिहितं-- विजयवेजयन्तजयन्तापराजितदेवाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णता ?, गोयमा ! जहण्णेणं एक समयं उक्कोसेण असंखेज कालं, सव्वट्ठसिद्धदेवा गं भंते ! पुच्छा, गोयमा ! जहण्णेणं एक समयं उक्कोसेण पलिओवमस्स असंखेज्जइभागं' ति, तत्त्वं तु केवलिनो विदन्तीति । इह यत्र यावानुत्पादस्यान्तरकालः प्रोक्तः प्रागुक्तलक्षणाया उद्वर्तनाया अपि तत्र तावनिर्विशेषोऽन्तरालकालो विज्ञेयः, सिद्धिगतौ तु सिद्धानामुत्पादस्य जघन्यतः समय उत्कृष्टतस्तु षण्मासा विरहकालः स्वयमेवावगन्तव्यः, यदाह-'सिद्धा णं भंते ! केवइयं कालं विरहिया सिझणयाए पण्णता ?, गोयमा ! जहण्णेणं एक समयं उक्कोसेणं छम्मासा' उद्वर्तनाविरहकालस्तु सिद्धिगती न
॥२६९॥